________________
आह्निकम् ]
प्रमेयप्रकरणम् नार्थसंवेदनादन्यच्चैतन्यं नाम विद्यते । तच्च सामग्रयधीनत्वात् कथं मोक्षे भविष्यति ॥ जाग्रतः स्वप्नवृत्तेर्वा सुषुप्तस्यापि वात्मनः । ज्ञानमुत्पद्यतेऽन्या तु चतुर्थी नास्ति तद्दशा ।। जाग्रदशायां स्वप्ने च बुद्धेः प्रत्यात्मवेद्यता । सुखं सुप्तोऽहमद्येति पश्चात् प्रत्यवमर्शनात् ।। तदा त्वचेत्यमानापि सुषुप्ते धीः प्रकल्प्यते । तुर्यावस्था तु संवित्तिशून्यस्य स्थितिरात्मनः ।।
15
ननु जाग्रत्स्वप्नयोर्भेदग्रहणात्मकाविद्यावशाद् आत्मस्वरूपस्य विज्ञानादेर्मा भूत् प्रकाशः; सुषुप्तावस्थायां वा अभेदाग्रहरूपा अविद्या समर्थ्यमाना, मास्तु तत्तत्त्वावगमः; 10 चतुर्थी तुर्यावस्था यस्याम् उभयरूपाविद्याविलयः, तत्र यथावस्थितात्मतत्त्वावगतिर्भविष्यतीत्याशङ्क्याह, जाग्रतः स्वप्नवृत्तेर्वा इति । ननु यत्र सुप्तो न कञ्चन कामं कामयते, न कञ्चन स्वप्नं पश्यति तत्सुषुप्तम्, तत्र कथं ज्ञानमुत्पद्यत इत्याह, सुषुप्ते धोः प्रकल्प्यते । कथं प्रकल्प्यत इति चेत् तदाह, पश्चात् प्रत्यवमर्शनादिति । पश्चाद्भाविनः प्रत्यवमर्शात्, स्मरणादित्यर्थः । ननु कथं चतुर्थी दशा नास्ति ? यावता तुर्यावस्थायाम् आत्मस्वरूपप्रतिपादिकां श्रुतिं पठन्ति “नान्तःप्रज्ञम्, न बहिःप्रज्ञम्, नोभयतः प्रज्ञम्, न प्रज्ञानघनम्, न प्रज्ञम्, नाप्रज्ञम्, अदृष्टम्, अव्यवहार्यम्, अग्राह्यम्, अलक्षणम्, प्रपञ्चोपशमम्, शिवम्, अद्वैतम्, चतुर्थी मन्यन्ते स आत्मा, स विज्ञेयः ।" इति । तदाह, तुर्यावस्था त्विति । संवित्तिशून्यस्यात्मनो या स्थितिः सा तुर्यावस्था, न युष्मत्परिकल्पितेत्यर्थः । आगमस्त्वन्यपर इति । अन्ये त्ववस्थाचतुष्टयमेवं वर्णयन्ति, इन्द्रियमनोऽर्थसन्निकर्षेण व्यवहारो 20 जाग्रत् । इन्द्रियदौर्बल्येन ग्राह्यार्थं प्रति मनसः स्मृतिमात्रशेषा बहिरप्रसृतेन्द्रियत्वेन च स्वप्नावस्था । ज्ञातुर्जेयग्रहणासामर्थ्य मौढयेनावस्थानं सुषुप्तम् । अविलुप्त वेदनावृत्तित्वात् तिसृणामवस्थानां वेदनं तुर्यमिति । आगमं च पठन्ति,
योऽयमर्थग्रहो द्रष्टुरक्षद्वारश्चिदात्मनः । शब्दादिविषयाकारस्तज्जाग्रदिति कथ्यते ॥ १। तस्यैवार्पितसंस्कारवृत्तेनिसदर्पणे । स्मृतिर्भवति या भूयस्तामाहुः स्वप्नरूपकम् ॥२।