________________
न्यायमञ्जयां
[ नवमम्
तृषा शुष्यत्यास्ये पिबति सलिलं स्वादु सुरभि क्षुधातः सञ्छालीन् कवलयति सम्पाकवलितान् । प्रदीप्ते रागाग्नौ घननिबिडमाश्लिष्यति वधू
प्रतीकारो व्याधेः सुखमिति विपर्यस्यति जनः ॥ इति । उच्यते, तदिदमतीव कृतकवैराग्यप्रकटनकौरुकुचीकूर्चकौशलम्, आनन्दस्य प्रतिप्राणिसंवेद्यस्य निह्नोतुमशक्यत्वात् । अनिवृत्तेऽपि दुःखे क्वचित् सुखसंवेदनान्न दुःखाभावः सुखम्, निरभिलाषस्याप्यतर्कितोपनतसुखसाधनविषयसम्पर्के सति सुखसंवेदनदर्शनात्, अभिलाषात्मकदुःखाभावः सुखमित्यपि
न मनोज्ञम्, यस्तु दुःखाभावे क्वचित् सुखमित्यपि व्यपदेशः प्रशान्तरोगाणामिव 10 पूर्वदर्शितः, स भाक्त इति न तावता स्वसंवेदनसाक्षिकसुखापह्नवः कर्तुमुचितः ।
मोक्षे तु नित्यसुखमसम्भवत् प्रमाणं नाभ्युपगम्यते । मोक्षे आत्मनः स्वरूपेऽवस्थितिविचारः
अपि च मोक्षे सुखमस्ति न वेति विचार एष न प्रामाणिकजनोचितः । स्वरूपेण व्यवस्थानमात्मनो मोक्ष इति मोक्षविदः । तत्रात्मस्वरूपमेव कीदृ15 गिति चिन्त्यं न पृथङ् मोक्षस्वरूपम् । आत्मनश्च सुखदुःखबुद्ध्यादय आगन्तुका
गुणा न महत्त्ववत् सांसिद्धिका इति निर्णीतमेतदात्मलक्षणे, सुखादिकार्येण चात्मनोऽनुमानादिति । अत एव कपिलकथितचितिशक्तिस्वभावत्वमपि न युक्तमात्मनः ।
सचेतनश्चिता योगात् तदभावादचेतनः ।
चितिर्नामार्थविज्ञानं कादाचित्कन्तु तस्य तत् ॥ प्रतीकारो व्याधेरिति । व्याधेः ज्वरादिजनितस्य दुःखस्य निवर्तकं शाल्यादि । सुखं सुखजनकमिति विपर्यस्यति, दुःखनिवृत्तिजनकं हि तत् ।
कौरुकुचीकूर्चकौशलमिति । कौरुकुचो दम्भः, लोकवञ्चनार्थकं दोघश्मश्रधारणं कूर्चशब्देन सूचितम् । अनिवृत्तेऽपि दुःख इति । यथासीद् ह्रदावनिनिमग्नकायस्य यगपभयानुभवः । अभिलाषात्मकदुःखाभाव इति । यद्विषयोऽभिलाषो जायते, तस्याप्राप्त्या यावदभिलाषो न निवर्तते, तावद् दुःखित इव पुरुषो भवति ।
29