________________
आह्निकम् |
प्रमेयप्रकरणम् मेघा अपि रवेरन्ये स्वरूपेण च वास्तवाः ।
तत्त्वान्यत्त्वाद्यचिन्त्या तु नाविद्यावरणक्षमा ।। तस्माद् न नित्यानन्दत्वमात्मनः सुवचम् ।
मोक्षे नित्यसुखसम्भावना नास्ति
अपि च मोक्षे नित्यसुखस्वभावे तद्रागेण प्रयतमानो मुमुक्षुर्न मोक्षमधि- 5 गच्छेत् । न हि रागिणां मोक्षोऽस्तीति मोक्षविदः । दुःखनिवृत्त्यात्मकेऽपि मोक्षे दुःखद्वेषात् प्रयतमानस्य समानो दोष इति चेत्, न, मुमुक्षोद्धेषाभावात् । रागद्वेषौ हि संसारकारणमिति च जानाति मुमुक्षुः, द्वेष्टि च दुःखमिति कथमिदं सङ्गच्छते ? सुखेऽप्यस्य रागो नास्त्येवेति चेत्, न, स्वर्गनिविशेषेऽपवर्गे स्वर्गवद्रागस्य सम्भाव्यमानत्वात् । दुःखेन तु निविण्णस्य मुमुक्षोर्वैराग्यं 10 जायते न दुःखविषयो द्वेषः, विरक्तस्य चास्य मोक्षं प्रति यत्नो भवति न दुःखं द्विषत इति समानो न्यायः ।। ___ यत्तूक्तम्--निरानन्दो मोक्षः प्रेक्षावतां प्रयत्नविषयो न भवतीति, तदपि न साम्प्रतम्, प्रयोजनानुसारेण प्रमाणव्यवस्थानुपपत्तेः । न हि प्रयोजनानुवर्ति प्रमाणं भवितुमर्हति । यदि निरानन्दो मोक्षः प्रेक्षावतां न रुचितः, कामं 15 मा भूत्, न त्वप्रमाणकमानन्दं तत्र कल्पयितुं शक्नुमः । न च सर्वात्मना साधूनामनभिमत एव तथाविधो मोक्षः । न च तदवाप्तये न प्रयतन्ते । ते ह्येवं विवेचयन्ति दुःखसंस्पर्शे शाश्वतिकसुखसम्भोगासम्भवाद् दुःखस्य चावश्यहातव्यत्वात्, विवेकहानस्य चाशक्यत्वाद् विषमधुनी इवैकत्र पात्रे पतिते उभे अपि सुखदुःखे त्यज्येतामिति । अतश्च संसारान्मोक्षः श्रेयान् यत्रायमियानतिदुःखप्रबन्धोऽ- 20 वलुप्यते, वरमियतो कादाचित्की सुखकणिका त्यक्ता न तस्याः कृते दुःखभार इयानूढ इति । तस्माद् न सुखोपभोगात्मको मोक्ष इति ।
सुखासत्त्वखण्डनम्
अन्यस्त्वाह, तिष्ठतु तावन्मोक्षः संसारेऽपि न सुखं नाम किञ्चिदस्तीति सर्व एवायं दुःखाभावमात्रे सुखव्यवहारः । तथा हि
95