________________
न्यायमञ्जल्
[ नवमम् इति संसारदुःखपरिहारक्रमे प्रकरणादेव तदुःखापायविषयं व्याख्यास्यते, न खलु व्याख्यानस्य भगवतः काचिद् भूमिरस्ति, दृष्टाश्च दुःखोपशमे सुखशब्दप्रयोगाः ।
चिरज्वरशिरो.दिव्याधिदुःखेन खेदिताः ।
सुखिनो वयमद्येति तदपाये प्रयुञ्जते ।। नित्यसुखनिरासः
यदि च आनन्दमिति वचनान्नित्यं सुखमात्मन इष्यते, तर्हि ब्रह्मेति वचनाद् व्यापकत्वमिव विज्ञानमिति वचनाज ज्ञानमपि नित्यमस्याभ्युपगन्तव्य
मतश्च सुखवज् ज्ञानस्यापि नित्यत्वात् संसारेऽपि नित्यसुखोपलब्धिः स्यात्, 10 ततश्च धर्माधर्मफलाभ्यां सुखदुःखाभ्यामस्य नित्यस्य सुखस्य साहचर्यमनुभूयेत ।
अपि च, __सुखवज् ज्ञानवच्चास्य कामं देहेन्द्रियाद्यपि ।
नित्यं प्रकल्प्यतामित्थं मोक्षो रम्यतरो भवेत् ॥ अथ कार्य सुखज्ञानं हेतुरस्य चिन्तनीयो यत उत्पद्यत इति वाच्यम्, योगसमाधिज इति चेत्, तस्य कार्यत्वात् स्वकार्यसुखसंवेदनावसानत्वान्न शाश्वतिकत्वं स्यात् । अप्रक्षयश्च धर्मस्य निरनुमानकः, न हि योगसमाधिजो धर्मो न क्षीयत इत्यत्र किञ्चिदनुमानमस्ति, विपर्यये तु प्रसिद्धमेवानुमानं सर्वस्य कृतकस्यानित्यत्वदर्शनादिति । क्षीणे तु धर्मे तत्कार्यज्ञानाभावात् सदपि सुखमनुपलभ्यमानमसतो न विशिष्यते । स्वप्रकाशं तत्सुखमिति चेत्, संसारेऽपि तदुपलब्धिप्रसङ्गः । शरीरादिसम्बन्धः प्रतिबन्धहेतुरिति चेत्, न, शरीरादीनामुपभोगार्थत्वाद् भोगप्रतिबन्धं विदधतीति न साध्वी कल्पना । अविद्यावरणात् संसारे स्वप्रकाशसुखानुपलम्भ इति चेत्, न, प्रकाशस्य तुच्छेनावरीतुमशक्य
त्वात्, नहि प्रकाशरूपं पारमार्थिकमात्मनः सुखं तद्विपरीततुच्छस्वभावेयम25 विरलगवलमलीमसं बलाहकव्यूहपिहितरविबिम्बं तदपि न रजनीसदृशं दिन
मिति सहसा मोहमहिमा ।