________________
10
आह्निकम् ]
प्रमेयप्रकरणम् महत्त्ववदस्तीत्यागमप्रामाण्यादुपगम्यताम् । तच्च संसारदशायामविद्यावरणवशेन नानुभूयते, तत्त्वज्ञानाभ्यासभावनाभिभूतनिरन्तराविद्यावरणस्त्वात्मा तस्यामवस्थायां तदनुभवतीति । तन्मतखण्डनम्
तदिदमनुपपन्नम्, आत्मनो नित्यसुखसत्तायां प्रमाणाभावात् । प्रत्यक्षं 5 तावदस्मदादोनामन्येषां वा केषाञ्चिदस्मिन्नर्थे न प्रभवतीति केयं कथा ? अनुमानमपि न सम्भवति, लिङ्गलेशानवलोकनादिति । __ननूक्तमेवानुमानम्, अपवर्गाय यः प्रेक्षावतां प्रयत्नः सुखसिद्धये हि बुद्धिमन्तो यतन्ते, नाश्मकल्पमात्मानं कर्तुमिति तदयमिष्टाधिगमार्थो मुमुक्षोः प्रयत्नः प्रेक्षापूर्वकारिप्रयत्नत्वात् कृष्यादिप्रयत्नवदिति ।
नानिष्टोपरमार्थत्वादनिष्टस्यापि शान्तये ।
सन्तः प्रयतमाना हि दृश्यन्ते व्याधिखेदिताः ।। अतिदुर्वहश्चायं संसारदुःखभार इति तदुपशमाय व्यवस्यन्तः सन्तो न निष्प्रयोजनप्रयत्ना भवन्तीत्यनैकान्तिको हेतुः ।
अथागमादवगम्यते विभुत्वेनेव नित्येन सुखेनाविनाकृत आत्मेति, तथा 15 च पठ्यते 'विज्ञानमानन्दं ब्रह्म' इति स्यादेतदेवं यद्येतदेव केवलमागमवचनमश्रोष्यत वचनान्तरमपि तु श्रूयते 'न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति, अशरीर वाव सन्तं प्रियाप्रिये न स्पृशतः' इति । श्रुतिवाक्यानां द्वैतवादानुसारिणी व्याख्या
ननु भवत्पठितमागमवचनमन्यथापि व्याख्यातुं शक्यते । सशरीरस्येति 20 प्रक्रमात् सांसारिके सुखदुःखे अनुकूलेतरविषयोपलम्भसम्भवे तदानीमशरीरमात्मानं न स्पृशत इत्यर्थः । हन्त तर्हि त्वदधीतमपि वेदवचनम् 'आनन्दं ब्रह्म
विभुत्वेनेव नित्येन सुखेनावियुत आत्मेति। अनेन श्रौतावानन्दब्रह्मशब्दौ व्याख्यातौ।
विज्ञानम् । विज्ञानस्वभाव नित्यविज्ञानात्मकमित्यर्थः ।