________________
न्यायमञ्ज·
[ नवमम् प्राणस्य क्षुत्पिपासे द्वे लोभमोहौ च चेतसः ।
शीतातपौ शरीरस्य षडूमिरहितः शिवः ॥ तदेवं नवानामात्मगुणानां निर्मूलोच्छेदोऽपवर्ग इति यदुच्यते, तदेवेदमुक्तं भवति तदत्यन्तवियोगोऽपवर्ग इति । 5 अपवर्गे जीवात्मस्थितिः
ननु तस्यामवस्थायां कीदृगात्मावशिष्यते । स्वरूपैकप्रतिष्ठानः परित्यक्तोऽखिलैर्गुणैः ॥ . ऊर्मिषटकातिगं रूपं तदस्याहुर्मनीषिणः ।
संसारबन्धनाधीनदुःखक्लेशाद्यदूषितम् ॥ 10 वेदान्तवादिमतेऽपवर्गस्वरूपम्
तत्र वेदान्तवादिन आहुः, नायमीदृशो मोक्षः प्रेक्षावतां प्रयत्नभूमिर्भवितुमर्हति, को हि नाम शिलाशकलकल्पमपगतसकलसुखसंवेदनसम्पदमात्मानमुपपादयितुं यतेत ? सोपाधिसावधिकपरिमितानन्दनिःष्यन्दात् स्वर्गादप्यधिक
मनवधिकनिरतिशयनैसर्गिकानन्दसुन्दरमपरिम्लानतत्संवेदनसामर्थ्य चतुर्थं 15 पुरुषार्थमाचक्षते विचक्षणाः । यदि तु जडः पाषाणनिर्विशेष एव तस्यामवस्था
यामात्मा भवेत्, तत् कृतमपवर्गेण, संसार एव वरमवस्थानम्, यत्र तावदन्तरान्तरापि दुःखकलुषितमपि स्वल्पमपि सुखमुपभुज्यते । चिन्त्यतां तावदिदं किमल्पसुखानुभवो भद्रकः, उत सर्वसुखोच्छेद एव । तस्मानित्यसुखम् आत्मनो
ऊमिषट्कातिगमिति । अशनायापिपासाशोकमोहजरामृत्युरूप ऊर्मिषट्कः, 20 तमतिक्रमेण स्थितम् । ईश्वराव्याकृतप्राणविराट्भूतेन्द्रियाख्या ऊर्मयः । परस्य ब्रह्मणो
ज्ञानक्रियायोगेन सिसृक्षोः स्थितिरीश्वराख्योमिः, तस्यैव सत्त्वरजस्तमोरूपतया यदवस्थानं तदव्याकृतत्वम् । तदेव प्राणरूपेण बोधनाद् बुद्धिः प्राणाख्योमिः । तस्यैवाहमित्यवमर्शोऽहङ्कारो 'विराट' शब्दवाच्यः। तस्यैव स्थूलरूपपृथिव्यात्मना स्थितिर्भूता
ख्योमिः । इन्द्रियाणि बुद्धिकर्मविभागेनैकादशम्, तद्रूपेणावस्थानमिन्द्रियाख्योमिः । 25 सोपाधिसावधिकेति । अप्सरःप्रभृतिपदार्थदर्शनोपभोगाद्युपाधिजन्यः । कर्मक्षय
पर्यन्तत्वाच्च सावधिः।