________________
॥ श्रीः ॥ न्यायमञ्जरी
[ नवममाह्निकम् ] अपवर्गपरीक्षा
एवं शरीरादौ दुःखपर्यन्ते हेये प्रमेये निर्णीते यदर्थमेतदुपदेशो यत् परमुपादेयं प्रमेयम्, यदर्थः शास्त्रारम्भस्तमपवर्ग लक्षयितुमाह
तदत्यन्तविमोक्षोऽपवर्गः । ____ तदिति प्रक्रान्तस्य दुःखस्यावमर्शः । न च मुख्यमेव दुःखं बाधनास्वभाव- 5 मवमृश्यते, किन्तु तत्साधनं तदनुषक्तञ्च सर्वमेव । तेन दुःखेन वियोगोऽपवर्गः । अस्ति प्रलयवेलायामात्मनो दुःखवियोगः, स तु अपवर्गो न भवति, सर्गसमये पुनरक्षीणकर्माशयानुरूपशरीरादिसम्बन्धे सति दुःखसम्भवात्, अतस्तद्व्यावृत्त्यर्यमत्यन्तग्रहणम् । आत्यन्तिकी दुःखव्यावृत्तिरपवर्गो न सावधिका । द्विविधदःखावमशिना सर्वनाम्ना सर्वेषामात्मगुणानां दुःखवदवमर्शात् । 10 अत्यन्तग्रहणेन च सर्वात्मना तद्वियोगाभिधानान् नवानामात्मगुणानां बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराणां निर्मूलोच्छेदोऽपवर्ग इत्युक्तं भवति ।
यावदात्मगुणाः सर्वे नोच्छिन्ना वासनादयः । तावदात्यन्तिकी दुःखव्यावृत्ति वकल्पते ॥ धर्माधर्मनिमित्तो हि सम्भवः सुखदुःखयोः । मूलभूतौ च तावेव स्तम्भौ संसारसद्मनः ॥ तदुच्छेदे तु तत्कार्यशरीराद्यनुपप्लवात् । नात्मनः सुखदुःखे स्त इत्यसौ मुक्त उच्यते ॥ इच्छाद्वेषप्रयत्नादि भोगायतनबन्धनम् । उच्छिन्नभोगायतनो नात्मा तैरपि युज्यते ।