________________
२०२ न्यायमञ्ज
[ द्वादशम् हेत्वाभासाश्च यथोक्ताः। हेत्वाभासास्तु पूर्वोक्तलक्षणैरेव लक्षिताः । निग्रहस्थानतां यान्ति, यथोक्ता इत्यतोऽब्रवीत् ॥ प्रमाणस्य प्रमेयत्वं प्रमेयस्य प्रमाणता । यथा लक्षणभेदेन न तथैतेषु दृश्यते ॥ भेदेनोक्ताः किमर्थं त इति निगदिता पूर्वमेवात्र युक्ति
दे ह्येते प्रयोज्याः प्रगुणनयविदा तत्त्वशुद्धिं विधातुम् । एतेषां धर्मकीर्तेरपि च न विमतिर्निग्रहस्थानताया
मित्थं द्वाविंशतिर्नो गुरुभिरभिहिता निग्रहस्थानभेदाः ॥ 10 उपसंहारः
इत्येवं सूत्रकारागममनुसरतानुज्झता भाष्यभूमि स्थाने स्थाने परेषां मतमतुलगति क्षिण्वता तार्किकाणाम् । काञ्चिद्वाक्यार्थचर्चामपि विरचयतानुक्रमेणावतीर्णा । निर्णीताः स्वे निबन्धे निपुणमिह मया षोडशैते पदार्थाः ॥ न्यायोद्गारगभीरनिर्मलगिरा गौरीपतिस्तोषितो वादे येन किरीटिनेव समरे देवः किराताकृतिः । प्राप्तोदारवरस्ततः स जयति ज्ञानामृतप्रार्थना
नाम्नानेकमहर्षिमस्तकवलत्पादोऽक्षपादो मुनिः ।।
पूर्वोक्तलक्षणैरेव लक्षिता इति । पूर्वोक्तानि यानि हेत्वाभासानां लक्षणानि तैरेव, 20 न निग्रहस्थानत्वेन पृथग् लक्षणान्तरप्रणयनं कार्यम् । प्रमाणस्य प्रमितिविषयत्वेन
प्रमेयत्वम्, प्रमेयस्य प्रमितिकरत्वेन प्रमाणत्वं यथा न स्वरूपेणैव नैवं हेत्वाभासानां निग्रहस्थानत्वम्, हेत्वाभासरूपतयैव तेषां निग्रहस्थानत्वमित्यर्थः ।
__धर्मकोर्तेरपि च न विमतिः इति । स ह्याह "हेत्वाभासाश्च यथान्यायाद् निग्रहस्थानमित्येतावन्मात्रमिष्टम्” इति ।
भट्टश्रीशङ्करात्मजचक्रधरकृते न्यायमञ्जरीग्रन्थिभङ्गे
द्वादशमाह्निकम्