________________
आह्निकम् ] निग्रहस्थानप्रकरणम्
२०१ रोधप्रभवाभावसिद्धान्तविरुद्धाभिधानादपसिद्धान्तेन निगृह्यते । यदि पूर्वधर्मनिरोधे धर्मान्तरप्रादुर्भावस्तदा 'नासतो विद्यते भावो नाभावो विद्यते सतः' इति स्वसिद्धान्तो हीयते । अथ सिद्धान्तो न त्यज्यते तर्हि प्रकृतिविकारानिश्चयात्विसिद्धौ साध्याभावः प्रसज्यत इति ।
__ अत्राह, हेतुप्रयोगं कृतवति कापिले नैयायिकस्तदसिद्धतोद्भावनया 5 प्रत्यवतिष्ठताम्, प्रकृतिविकृतिस्वरूपप्रश्नस्य कोऽवसरः? तदिदमर्थान्तरगमनमस्य भवेदेवं पृच्छतः । अर्थान्तरगमनं स्वग्रन्थे निग्रहस्थानं लिख्यते । अथ चाधुना तेनैव व्यवह्रियत इति कोऽयं नयः ? यदि तु सांख्यमतं निराचिकीर्षितं तदसिद्धतैव हेतोरुद्भाव्यतां प्रकृत्यन्वयस्य विकारेषु सम्भवादिति । विकारा हि प्रवृत्तिनिवृत्तिधर्मकाः । न चैवंप्रकारमव्यक्तधर्ममव्यक्तान्वये हि विकाराणां 10 प्रवृत्तिनिवृत्त्यात्मकत्वं हीयेतेत्येवमसिद्धत्वाद्धेतोर्हेत्वाभासप्रयोगादेव सांख्यो निगृहीत इति न निग्रहस्थानान्तरमपसिद्धान्त इति।
अत्रोच्यते,सत्यम् । असिद्धो भवत्वयं कापिलकल्पितो हेतुः, प्रकृतितद्विकृतिप्रश्नप्रक्रमणेनापि तदसिद्धमवधारयितुं शक्यत एव; किन्तु हेतुस्वरूपेऽवधारिते तदूषणमभिधानीयमनवधारितस्य दूषयितुमशक्यत्वादिति तत्प्रश्नो नार्थान्तर- 15 गमनम् । प्रश्नोत्तरमेव भाषमाणः परामर्श निकटतरपरिस्फुरदपसिद्धान्ताभिधाननिबन्धननिग्रहान्तरविषयतां प्रतिपन्न इति हेत्वाभासवर्त्मनि न दूरं गम्यते ।
क्वचिदपि परनिग्रहस्य हेतौ हृदयपथं प्रथमं किलावतीर्णे । अपरमपि न कारणं विचिन्त्यं किमिव फलं खलु पिष्टपेषणस्य ॥
तदा नासतो विद्यते भावो नाभावो विद्यते सत इति । पूर्वधर्मान्तरनिरोधाभ्युपगमे हि सतोऽभावोऽभ्युपगतः, अपूर्वधर्मान्तरप्रादुर्भावे चासतो भावोऽभ्युपगत इति ।
अव्यक्तधर्मान्वये हि विकाराणां प्रवृत्तिनिवृत्त्यात्मकत्वं न स्यादिति । प्रधानस्य नित्यत्वे तद्धर्मस्य नित्यत्वस्यान्वये विकाराणामपि नित्यत्वादुत्पत्तिनिरोधयोरभावः ॐ स्यादित्यर्थः ।
२६