________________
२०० न्यायमञ्ज
[ द्वादशम् अत्रोच्यते, अहो नु खल्वयं तपस्वी पर्युदासस्य प्रसज्यप्रतिषेधस्य च विशेषमपश्यन्नतिमात्रं मुह्यति भूतदोषाप्रतिभानमन्यदन्यच्चाभूतदोषप्रतिभानम् । एकत्राप्रतिपत्तिरितरत्र विपरीतप्रतिपत्तिः । तत्र भूतदोषाप्रतिपत्तिरप्रतिभा, अभूतदोषप्रतिपत्तिरननुयोज्यानुयोगः । अपि च असाधनाङ्गवचनमदोषोद्भावनञ्च यद् भवता निग्रहस्थानमाख्यातं तत्र प्रसज्यप्रतिषेध एव केवल आश्रीयमाणे हेत्वाभासा अपि च निग्रहस्थाने भवेयुः । साधनाङ्गस्यानभिधानं मौर्यमेव केवलं निग्रहस्थानं भवेत् । साधनाङ्गवचनमदोषोद्भावनमपि पर्युदासव्याख्यानाहं भवत्येव । ततश्च भूतदोषानुभावनमप्रतिभा अभूतदोषोद्भावनञ्च निरनुयोज्यानुयोगः । ___अथाभूतदोषोद्भावनेऽपि भूतदोषाप्रतिभानमस्त्येवेति तदेवास्तु निग्रहस्थानमित्युच्यते, तहि मूकत्वमेवैकं निग्रहस्थानं स्यादसाधनाङ्गवचनेऽप्येवं वक्तुं शक्यत्वादित्युक्तमेव ।
अपसिद्धान्तस्य लक्षणम
सिद्धान्तमभ्युपेत्यानियमात् कथाप्रसङ्गोऽपसिद्धान्तः॥
यः कञ्चन प्रथमं सिद्धान्तमभ्युपगम्य कथामुपक्रमते कथाप्रसङ्गाच्च सिषाधयिषितार्थसमर्थने रभसेन दूषणोद्धरणाश्रद्धया वा सिद्धान्तविरुद्धमभिधत्ते सोऽपसिद्धान्तेन पराजीयते । तद्यथा सांख्यः प्रतिवादिनि सन्निधाने 'नासतो विद्यते भावो नाभावो विद्यते सतः' इति स्वसिद्धान्तं प्रथमं प्रतिज्ञाय
प्रधानसिद्धये साधनप्रयोगं करोति । व्यक्तं विकारजातमेकप्रकृति समन्वय20 दर्शनात्, मृदन्विता हि मृद्विकाराः कुण्डपिठरशरावप्रभृतय एकप्रकृतिका
दृष्टाः, एवमस्यापि गवाश्वादिविकारजातस्य सुखदुःखमोहान्वयदर्शनात् तदात्मकैकप्रकृतिप्रभवत्वेन भवितव्यम् । एवमुक्तवानसौ नैयायिकेनानुयुज्यते, अथ का प्रकृति म का च विकृतिरिति ? अविदितप्रकृतिविकृतिस्वरूपो हि
कथं विकृतीनामेकप्रकृतित्वमेकत्वं जानीयादिति । एवमनुयुक्तः कापिल 25 आह, यस्यावस्थितस्य धर्मान्तरनिवृत्तौ धर्मान्तरं प्रवर्तते, सा प्रकृतिः, यत्
तद्धर्मान्तरं प्रवर्तते सा विकृतिरिति । सोऽयमेवं वदन् प्रागभ्युपगतसदसन्नि