________________
५४
न्यायमञ्ज
[ पञ्चमम् पुंसो निर्देशात्' इति, कारकत्वानुगुणविशेषणयोगिनो ह्यस्य कर्तृतया योग्यः सम्बन्धः, तद्विपर्ययेत्वधिकारित्वेनेति। तस्मादधिकृतस्य कर्तृत्वं न कर्तुरधिकारः । इत्थञ्च स्वर्गकामस्याधिकृतत्वं निर्वहति, यदि हि तत्कर्म स्वर्गार्थं स्यात् स्वर्गों
मे भोग्यो भवेत् कथमहं स्वर्ग प्राप्नुयामित्येवं साध्यत्वेन स्वर्गमिच्छन् स्वर्ग5 काम इत्युच्यते । यदि न स्वर्गसाधनं तत् कर्म तद्विरुद्धमेवेदमापतति स्वर्ग काम
यते, यागं करोतीति हि अन्यदिच्छति अन्यत् करोतीति स्यात् । अतः कर्मणः काम्यमानसाधनतामप्रतिपद्यमानः स्वर्गकामस्तत्र नैवाधिक्रियते, न चानधिक्रियमाणस्तत्र सम्बध्यते । तदेवमधिकृतत्वेन स्वर्गकामस्य कर्मणि सम्बन्धात् स्वर्गयागयोश्च साध्यसाधनभावावगममन्तरेण तस्याधिकारनिर्वाहासम्भवादवश्यं क्रियायाः साधनत्वं स्वर्गस्य च साध्यत्वमभ्युपगन्तव्यम्, अतश्च क्रियायाः फलं प्रति गुणभावान्न प्राधान्यमप्राधान्याच्च न वाक्यार्थत्वम् । तदुक्तम्, “कर्माण्यपि जैमिनिः फलार्थत्वात्' इति ।
का चेयं क्रिया वाक्यार्थ इत्युच्यते ? य एष यागादिर्भावार्थो धातुवाच्य उत प्रत्ययार्थः कश्चित् तदतिरिक्त इति । तत्र भावार्थस्य काम्यमानसाधनत्वाद
कारकत्वानुगुणेति । विशेषणसम्बन्धे हि विशिष्टः कर्ता भवति । विशेषणेन सम्बन्ध उपादेयत्वे सति विशेषणस्य भवति; यतो लोहितमुष्णोषमुपाददतेऽतो. लोहितोष्णीषा भवन्ति । उपादेयत्वाभावात् तु विशेषणविशेष्यसम्बन्धाभावाद् विशिष्टस्य कर्तुरप्यभाव इत्यनुपादेयस्य विशेषणस्य कारकत्वानुगुण्यम् । अधिकृतस्य कर्तृत्वमिति ।
यतः स्वर्गकामोऽत्राधिकारो अतः स्वर्गकामेनेदं कर्तव्यमित्यधिकारोत्तरकालमार्थं 20 कर्तृत्वम् । यदि ह्यसौ न करोति तत्तद्विषयोऽस्याधिकारो निष्फल एव स्यात् । न
कर्तुरधिकारः। स्वर्गकामकर्तृको यो यागस्तत्र स्वर्गकाम एवाधिकृत इति योग्यतालक्षणोऽधिकार आर्थः । तदाह, असो स्वर्गकामकर्तृको भवति यदि तत्र स्वर्गकामोऽधिक्रियते । 'तवैतत् कर्म' इति आर्थमधिकृतत्वमिति। एतच्च न युक्तम् । यदि
स्वर्गकामस्य कर्तृत्वेनान्वयः स्यात् स्यादयं पक्षः, स तु न सम्भवतीति तात्पर्यम् । 25 कर्माण्यपोति । जैमिनिराचार्यः कर्माण्यपि शेषभूतानि मन्यते । क तेषां शेषत्वं तदाह, फलार्थत्वादिति ।
प्रत्ययार्थः कश्चिदिति । यागविषयः प्रयोजकव्यापारो भावनाख्यः ।