________________
आह्निकम् ]
प्राधान्यमुक्तमेव, प्रत्ययार्थोऽपि काम्यमानभावार्थगतसाध्यसाधनसम्बन्धापरित्यागेनैव प्रतीयमानो वाक्यार्थतामेति नान्यथेति । स चायं परेषामपि पक्षः । तस्मान्न क्रियामात्रपर्यवसायी वाक्यार्थ इति सिद्धम् ।
प्रमाणप्रकरणम्
५५
पुरुषस्य वाक्यार्थतावादिमतम्
किमिदानीं फलस्यैव वाक्यार्थत्वं ( क्रियायाः ) कथमुत्सृष्टम्, अप्राधान्यादिति चेत्, फले समानम्, फलमपि पुरुषार्थत्वादप्रधानम् । न हि स्वर्गः स्वतन्त्र एव सत्तां लभतामिति यतते पुरुषः, किन्तु स्वोपभोग्यतयैव सर्वमभिलषतीति । अतस्तस्यापि तदर्थत्वान्न प्राधान्यम्, आह च " फलञ्च पुरुषार्थत्वात्” इति ।
हन्त तर्हि पुरुष एव वाक्यार्थो भवतु स ह्यनन्यनिष्ठः स्वतन्त्रत्वात्, उच्यते । पुरुषोऽप्यौदुम्बरीसंमार्जनादिषु विनियुज्यते एव, 'यजमानसंमिता औदुम्बरी भवति' इति तस्यापि तदर्थत्वमुक्तञ्च "पुरुषश्च कर्मार्थत्वात्” इति । उक्तानां क्रियादीनां वाक्यार्थत्वनिरसनम्
यद्येवं सङ्कटे पतिताः स्मः, न विद्मः किं विदध्महे, क्रिया हि फलार्था फलञ्च पुरुषार्थम्, पुरुषः क्रियार्थ इति परिवर्तमाने चक्रे कस्य प्राधान्यं शिष्मः कस्य वाक्यार्थत्वम् ?
उच्यते । पुरुषस्तावन्न वाक्यार्थः, आख्यातवाच्यत्व एव तस्य विवदन्ते का कथा वाक्यार्थत्वस्य । ननु कर्त्तरि लकार इति स्मरणात् कथं नाख्यातवाच्यः कर्त्ता, कोऽयं लकारो नाम ? स हि वर्त्तमाने लडिति विधाय कर्त्तरि शप् युष्मदि मध्यमः अस्मद्युत्तमः शेषे प्रथमः, तिप्तस्झीति बहुषु बहुवचनम् 'द्व्येकयोद्विवचनैकवचने' इति वाक्यान्तरे विभज्य विवृतः । तदेतानि कारकसंख्या
साध्यसाधनसम्बन्धापरित्यागेनेति । यजेत यागेन स्वर्गं भावयेत् ;
स्वर्गो भवति अतो याविशिष्टां भावनां कुर्यादिति ।
यतो यागात्
फलञ्च पुरुषार्थत्वात् पुरुषश्च कर्मार्थत्वादिति जैमिनिसूत्रे पूर्वसूत्रद्वयानन्तरभाविनी स्पष्टे ।
औदुम्बरोति । उदुम्बराख्यवृक्षविशेषप्रकृतिका यष्टिर्यजमानमानायां स्पृष्टोद्गा सामानि गायति ।
5
10
15
20
25