________________
आह्निकम् ]
प्रमाण प्रकरणम्
५३
विरतायां सुरततृषि न स्वर्ग इत्युच्यते । तदेवमेष स्वर्गशब्दः प्रीतिं न व्यभिचरति, द्रव्यन्तु व्यभिचरति । एवमद्रव्यत्वात् स्वर्गस्य न क्रियाङ्गत्वम् । तथापि निरतिशय सुखप्रतीत्यन्यथानुपपत्तितः परिकल्पितः कनकगिरिशिखरादिर्देशः स्वर्गः । सुतरां तस्य न क्रियासाधनत्वमवकल्पते दध्यादिवदुपादातुमशक्यत्वात् ।
यदप्यदृष्टेनैव द्वारेण समुद्रं मनो ध्यायेदितिवत् स्वर्गकामना तत्रोपकारिणीति तदपि क्लिष्टकल्पनामात्रम् । प्रीतिर्हि निरतिशया स्वर्गः, प्रीतेश्च नान्यार्थत्वं युक्तम्, प्रीत्यर्थमन्यन्नान्यार्था प्रीतिः । तस्मान्न यागाय स्वर्गोऽपि तु स्वर्गाय
यागः ।
5
10
इत्थञ्च क्रियासाधनानुपदेशान्न कर्तृसमर्पणेन स्वर्गकामपदं समन्वेति । कथं तर्ह्यस्यान्वयः ? अधिकारिवाचित्वेन ब्रूमः ।
कोऽयमधिकारी नाम, कर्मणः स्वामीश्वरवचनो ह्यधिकृतशब्दः । ननु कर्तैव कर्मणः स्वामी नान्यः, मैवम् । स्वामी सन् कर्ता न कर्ता सन् स्वामीति । ननु क्रियाकारकसम्बन्धव्यतिरिक्तः कोऽन्यः कर्मणः पुरुषस्य च सम्बन्धः ? उच्यते । ममेदं कर्त्तव्यमहमत्र स्वामीति स्वस्वामिभावमवगत्य पाश्चात्त्यः क्रियाकारकसम्बन्धोऽवगम्यते ।
ननु त्वया क्रियाकारकसम्बन्धो नापह्नुयते जातिवादिनेव व्यक्तिप्रतीतिः । स तु पाश्चात्त्य इत्यत्र किं प्रमाणम् ? उक्तमत्र "अनुपादेयविशेषणं विशिष्टस्य अथादृष्टेनैव द्वारेणेति । यद्यपि [ प्रीतिवचनः ] स्वर्गशब्दस्तथापि तदिच्छा यागस्यादृष्टमुपकारं करिष्यति । रथन्तरप्रस्तावे समुद्रमनोध्यानवत् ।
इत्थञ्च क्रियासाधनेति । क्रियायाः साधनं कर्तारं .... शक्नोति तदेत्यर्थः । स्वामी सन् कर्तेति । यतस्त्वमस्य कर्मणः स्वामी ततस्त्वयेदं कार्यमित्यधिकारावस्थोत्तरकालं कर्त्रवस्थाया उल्लासात् ।
अनुपादेयविशेषणेति । यो हि यागसाधनत्वेनोपादातुं शक्यते तद्विशिष्टः कर्ता भवति । यथा 'अभिक्रामन् जुहोति' 'लोहितोष्णीषाः प्रचरन्ति' इति । यत्तु यागसाधनत्वेनोपादातुमाहर्तुं न शक्यते तद्वि [ शि]ष्टोऽधिकारी । यथा यावज्जीवं जुहुयादिति । न हि जीवनं पुरुषप्रयत्नेन यागसाधनत्वेनोपादातुं शक्यते, स्वतः सिद्धन्तु तन्निमित्तत्वेनाधिकारिणं विशिनष्टि ।
15
20
25