________________
अम् ]
प्रमाण प्रकरणम्
५१
क्रियाप्राधान्यात् सैव वाक्यार्थं इति । तदुक्तम्, “द्रव्यगुणसंस्कारेषु बादरिः” । एतदुक्तं भवति द्रव्यादीनामेव क्रियां प्रति शेषत्वमवगम्यते न हि क्रियाया अन्यशेषत्वमिति ।
फलवाक्यार्थवादिमतम्
अत्रोच्यते । कुत इदं क्रियायाः प्राधान्यमुपेयते, वस्तुवृत्तेन वा शब्दप्रत्ययमहिम्ना वा ?
फलस्य वस्तुतस्तावत् प्राधान्यमवगम्यते । न सचेताः क्रियां काञ्चिदनुतिष्ठति निष्फलाम् ।। वेदाद् गुरुनियोगाद् वा शासनाद् वा महीभुजः । न वैफल्यमपश्यन्तः क्रियां विदधते जनाः ॥ डो माणवकोऽप्येष चपेटापातहानये । मोदकाद्याप्तये वापि करोति गुरुशासनम् ।।
अत्रोच्यते । न वस्तुतः प्राधान्यमिहाश्रीयते, अपि तु शब्दतः । शब्दप्रमाणका वयम् । यच्छब्द आह तदेवास्माकं प्रमाणम् । तद् यथा राजपुरुष इति वस्तुवृत्ते राजा जगतामीशिता प्रधानम्, पुरुषस्तपस्वी तदिच्छानुवर्त्तनेन जीवति । शब्दस्तु पुरुषप्राधान्यमाचष्टे उत्तरपदार्थप्रधानत्वात् तत्पुरुषस्येति । एवमिहापि यजेत दद्याज्जुहुयादिति क्रियां प्राधान्येनोपदिशति शब्दः । स्वर्गकाम इत्यपि क्रियां प्रति कर्तुरुपदेश:, वस्तुवृत्तेन तु कर्मणि क्रियमाणे कर्मस्वाभाव्यं फलं चेद् भवति भवतु तत्, पुरुषोऽपि प्रयततां नाम फलेन, न तु शब्दः फलोपदेशनिष्ठः । आह च ' तस्मिंस्तु कृते स्वयमेव तद् भवति' इति ।
द्रव्यगुणसंस्कारेषु बादरिरिति । बादरिराचार्यो द्रव्यगुणसंस्कारेषु शेषभावं पारार्थ्यं मेने न यागफल [ पुरुषेषु |] [ व्रो] ह्यादि द्रव्यं क्रियानिर्वर्तनद्वारेण तच्छेषम्, द्रव्यावच्छेदकत्वेन च शौक्ल्यादिगुणः क्रियाशेषः अवघातश्च संस्कारः क्रियायोग्यतां ..... [न हि क्रियाया अन्यशेषत्वम् ] न क्रिययान्यत् साध्यते । न ह्येवं वचोऽस्ति यागात् स्वर्गः अपि तु स्वर्गकामस्य याग इति ।
तमस्तु कृते स्वयमेवेति बादर्यधिकरणे भाष्यम् । स्वयमेव भवति... स्ववानिति न्यायान्न पुनरेतद्वाक्यश्रुतस्वर्गकामपदसामर्थ्यादिति ।
5
10
15
20
25