________________
न्यायमञ्ज
[पञ्चममृ पाचकादिशब्दानां हि प्रवृत्तिनिमित्तं क्रिया अभिधेयास्तु कादयः ।
क्वचित् पुनर्यदेवास्य स्यात् प्रवृत्तिनिबन्धनम् । तस्यैव वाच्यता भावप्रत्ययान्तपदेष्विव ।। इत्येवं लेशतस्तावन्नाम्नां वृत्तिरुदाहृता । आख्यातानान्तु वाच्योऽर्थः पुरस्ताच्चर्चयिष्यते ।। उपसर्गनिपातानां नाम्नामप्यविभागतः ।
प्रयोगप्रतिपत्तिभ्यामनेकार्थोऽवगम्यते ॥ उपसर्गः प्राचुर्येण क्रियायोगे प्रवर्तते, "उपसर्गाः क्रियायोगे'' इति स्मरणात् । केचित्तु नामभिरपि सम्बध्यन्ते, यथा प्रगतं वयो यस्य स प्रवया 10 इति । अन्ये धातोविचित्रार्थतामापादयन्तस्तद्विशेषणतया सम्बध्यन्ते । यथोक्तम्,
उपसर्गवशाद् धातुरर्थान्तरविलासकृत् ।
विहाराहारसंहारप्रहारपरिहारवत् ॥ ननु क्वचिदुपसर्गों धात्वर्थमेव बाधमानो दृश्यते, यथा प्रस्थित इति । 15 गतिनिवृत्तिवाची धातुः प्रत्युत गतिवचनतां नीतः प्रशब्देन, न चेदृशं विशेषणं भवितुमर्हति ।
येन स्वार्थाविरोधेन विशेष उपजन्यते ।
विशेषणं तदेवेष्टं न तु यत् स्वार्थनाशनम् ॥ इति। नैष दोषः । अर्थान्तराभिधानसामर्थ्यापादनमेव धातोर्विदधदुपसर्गो विशे20 षणं भवितुमर्हति । अनेकार्थाभिधानशक्तिश्च धातुरुपसर्गेण नियतेऽर्थेऽवस्थाप्यत
इति तस्य तद्विशेषणता। उपसर्गाणां वाचकत्वं द्योतकत्वं वा
उपसर्गाः किमर्थस्य वाचका द्योतका इति । प्रकृतानुपयोगित्वादिहैतन्न विचार्यते । अन्वयव्यतिरेकाभ्यां तदर्थो ह्यवधार्यते । तदागमे तत्प्रतीतेस्तदभावे तदग्रहात् ॥
25