________________
आह्निकम् ]
प्रमाण प्रकरणम्
४५
ते तु किं वाचकाः सर्वे तदवगतिमुपदधति, किं वा द्योतका इति, किमनेन ? एवं समुच्चयादिवाचिनां चादिनिपातानां 'वृक्षं प्रति द्योतते' इति कर्मप्रवचनीयानामर्थः प्रयोगप्रतिपत्तिभ्यामवधारणीय इत्यलं प्रसङ्ग ेन ।
अयमस्य पदस्यार्थ इति केचित् स तेन वा । योऽर्थः प्रतीयते यस्मात् स तस्यार्थ इति स्मृतिः ॥ स्पष्टामपि तु ये बुद्धि निरूपयितुमक्षमाः । दर्शयितुमस्माभिर्दिङ्मात्रमुपदर्शितम् ।।
तां
इति प्रमाणत्वसमर्थनाय शब्दस्य किञ्चिद् वयमुक्तवन्तः । पदाभिधेयार्थनिरूपणन्तु शास्त्रान्तरे विस्तरतः प्रणीतम् ।। तत्क्षोदेन न नः प्रयोजनमतिद्राघीयसी सा हि भूरन्यामेव दिशं परीक्षितुमतोऽस्माभिर्गृहीतः क्षणः । जात्याद्यर्थसमर्थनेन कथिता बाह्यार्थसंस्पर्शिता शब्दानामियतैव नन्ववसरेऽमुष्मिन् कृतार्था वयम् ॥
वाक्यार्थचिन्ता
एवं पदार्थे निर्णीते वाक्यार्थश्चिन्त्यतेऽधुना । तत्र विप्रतिपत्तिश्च बहुरूपा विपश्चिताम् ॥ तत्रैव विप्रतिपत्तयः
केचिदाचक्षते, बाह्यस्य वाक्यार्थस्यासम्भवात् पदार्थसंसर्गनिर्भासं ज्ञानमेव वाक्यार्थ इति ।
अन्ये, वास्तवः पदार्थानां परस्परसंसर्गे बाह्य एव वाक्यार्थ इत्याहुः । अन्यव्यवच्छेदो वाक्यार्थ इत्यपरे । शुक्लादिपदान्तरोच्चारणे कृष्णादिनिवृत्तेरवगमात् ।
अपरे सङ्गिरन्ते, संसर्गस्य दुरपह्नवत्वात् तस्य च गुणप्रधानभावगर्भत्वाद् गुणीभूतकारकनिकरनिर्वत्र्त्या प्रधानभूतक्रिया वाक्यार्थं इति ।
अन्ये मन्यन्ते, भाव्यनिष्ठः पुरुषव्यापारः करोत्यर्थो भावनाशब्दवाच्यो वाक्यार्थः । लिङादिशब्दव्यापारस्तु शब्दभावनाख्यः पुरुषार्थंभावनानुष्ठाने प्रवर्त्तकः, स एव विधिरुच्यते ।
5
10
15
20
25