________________
आह्निकम् ]
प्रमाणप्रकरणम् गुणं शुक्लादिशब्दास्तु कथयन्तस्तदाश्रयम् ।
द्रव्यमप्याक्षिपन्त्येव शुक्ले शुक्लेति दर्शनात् ॥ शुक्लादयोऽपि शब्दा गुणशब्दोपबन्धसङ्कोचितशक्तयो भावप्रत्ययान्तवद् गुणमात्राभिधाने एव पर्यवस्यन्ति शुक्लो गुणोऽश्वे, शौक्ल्यमश्वे इति, सामानाधिकरण्यप्रयोगदर्शनात् ।
क्रियाशब्दाश्च द्विविधा भवन्ति । केचित् कर्त्तरि, कर्मणि, करणे वा प्रयुज्यन्ते । केचिद् भावमात्रवचना एव । कादिवाचिनस्तावन्निमित्तीकृत्य काञ्चन क्रियां तद्योगिनि द्रव्ये वर्तन्ते पाचकादयः ।
यत्रापि तक्रियायोगस्तदानों नोपलभ्यते ।
तत्रापि योग्यतां दृष्ट्वा शब्दं तज्ज्ञाः प्रयुञ्जते । न हि पाचको लावक इति प्रवृत्तक्रिय एवोच्यते, अन्यदापि तथा तथा व्यवहारात् ।
अन्ये पूर्वापरीभूतस्वभावपरिहारतः ।
सिद्धरूपतया प्राहुः शब्दाः पाकादयः क्रियाम् ॥ तदुक्तम्, कृदभिहितो भावो द्रव्यवद् भवति क्रियावच्चेति । न चैकान्तेन 15 परिहृतसाध्यमानावस्थैव तैः क्रियोच्यते, यत आह क्रियावच्चेति ।
अन्यत् प्रवृत्तौ शब्दस्य निमितमवगम्यते । अभिधेयन्तु तस्यान्यदित्ययं प्रथमः क्रमः ।।
गुगशब्दोपबन्धेति । गुणशब्दस्य य उप समीपे बन्धः प्र[योगः] यथा शौक्ल्यमश्व इति । भावप्रत्ययान्तस्य शुक्ल्शब्दस्याश्वशब्देन सामानाधिकरण्यं नास्ति 20 तद्वद् गुणशब्दोपबन्धस्य, तेन [शुक्लो गुणोऽ]श्व इति न सामानाधिकरण्यमित्यर्थ :।
अन्ये पूर्वापरीभूतेति। पूर्वावस्थामतिक्रान्त उत्तरां फलोत्पत्तिकालभाविनीम[वस्थामा]श्रितः क्रमरूपः साध्य उच्यते। क्षणसमुदायात्मका एकफलोत्पादकतया ह्यधिश्रयणाद् यवादयः क्षणा एकत्वे[न यव] शब्दवाच्याः । अतस्तस्य पाकादेरैक्यादपूर्वापरापूर्वापराः सम्प[न्ना] इति....