________________
आह्निकम् ]
प्रमाण प्रकरणम्
३७
लक्षितव्यक्तिवृत्तित्वेन, यतोऽभिधानवैशसं स्यात् । स च विभक्तयर्थो जातौ साक्षादसम्भवन् कक्ष्यान्तरितो भविष्यति । नैतत् । आत्मनो ज्ञानप्रयत्नादियोगित्वेन कारकत्वोपपत्तेः, जातेस्तु साक्षान्न मनागपि व्यापारलेशसंस्पर्श इति स्वतो दुर्लभं तस्याः कारकत्वम् । अतः कथं तत्र विभक्तयर्थान्वयः ।
यदन्वितञ्च संख्यादि तत्स्थत्वेन न कथ्यते । कथ्यते यद्गतत्वेन न तत् तेन समन्वितम् ॥ न च व्यवहितव्यक्तिप्रतीति मन्यते जनः । नान्यथानुपपत्त्यापि क्रमसंवेदनं क्वचित् ॥ जनयन्तीञ्च पश्यामो व्यक्ति जात्यनुरञ्जिताम् । संख्यादियोगिनी चेति सा वै धत्ते पदार्थताम् । जातेः कार्यान्वयः श्येनचितावित्यभ्यधायि यत् । तत्र संस्थाननिर्देशान्न जातेः काचिदङ्गता ॥ श्येनव्यक्त्या चेत् सादृश्यमिष्टकाकूटस्य नास्ति, व्यक्त्यन्तरेण व्यभि - चारात् ; नितराममूर्त्तया जात्या सादृश्यमाकाशेनेव न तस्यावकल्पते इति स्पर्धेदाहरणमेतत् ।
जातिविशिष्टव्यक्तेः पदार्थत्वम्
अन्येषु तु प्रयोगेषु गां देहीत्येवमादिषु । तद्वतोऽर्थक्रियायोगात् तस्यैवाहुः पदार्थताम् ||
पदं
तद्वन्तमेवार्थमाञ्जस्येनाभिजल्पति । न च व्यवहिता बुद्धिनं च भारस्य गौरवम् ॥
अभिधानवैशसं स्यादिति । किञ्चिदभिदधाति ततोऽर्थान्तरं लक्षयतीत्या.... विना नोपपद्यतेऽतः सामान्यप्रतीत्यन्थानुपपत्त्या व्यक्तिप्रतीतिरिति क्रमं जनो मन्यते, [न तु क्रमि] कत्वेन दृष्टेत्याह संवेदनं ज्ञानं जनयन्तीं तामेव पश्याम इति ।
न च भारस्य गौरवमुभयाभिधाने, यदक्तम् “[सच्छब्दः सत्तां प्रवृत्तिनिमित्तमा] श्रित्य तद्वति द्रव्ये प्रवृत्तः शुक्लशब्दश्च गुणं प्रवृत्तिनिमित्तमाश्रित्य तत्रैवेति मुख्यया वृत्त्या सामानाधिकरण्यं [भवति ] " ।
5
10
15
20
25