________________
न्यायमञ्ज
[पञ्चमम् सामानाधिकरण्यादिव्यवहारोऽपि मुख्यया ।
वृत्त्योपपद्यमानः सन्नान्यथा योजयिष्यते । तस्मात् तद्वानेव पदार्थः ।
ननु कोऽयं तद्वान्नाम, तदस्यास्तीति तद्वानिति विशेष एव सामान्यवानुच्यते, विशेषवाच्यत्वे चानन्त्यव्यभिचारौ तदवस्थौ । सामान्यन्तु शब्देनानुच्यमानं नोपलक्ष्यमाणं भवति, उभयाभिधाने च शब्दस्यातिभार इत्युक्तम् ।
उच्यते । नेदन्तानिर्दिश्यमानशाबलेयादिविशेषस्तद्वान् । न च सर्वस्त्रैलोक्यवर्ती व्यक्तिवातस्तद्वान्, किन्तु सामान्याश्रयः कश्चिदनुल्लिखितशा
बलेयादिविशेषस्तद्वानित्युच्यते। सामान्याश्रयत्वाच्च नानन्त्यव्यभिचारयोस्तत्रा10 वसरः । न च विशेषणमनभिधाय विशेष्यमभिदधाति शब्द इत्यभ्युपगच्छामः,
येनैनमतिभारेण पीड्येमहि । सामान्याश्रयमाने सङ्केतग्रहणात् तावन्मात्रं वदतः शब्दस्य कतरोऽतिभारः । एवं "तद्वतो स्वतन्त्रत्वाद्" इत्यादि दूषणं परिहृतं भवति । किञ्च, .
20
तद्वतो नास्वतन्त्रत्वादिति। "[तद्वतो नास्वतन्त्र]त्वादुपचारादसम्भवात् । वृत्तिरूपस्य भिन्नत्वाद् राज्ञि भृत्योपचारवत्" ।
इति दिग्नागश्लोकः । अत्र न जातिशब्दो योगजात्योर्वा भेदार्थैरपृथक्श्रुतैरित्यतो वाचक इति सम्बध्यते। तेनायमर्थः, जातिशब्दः सदादिस्तद्वतो न वा[चकः] । [सच्छब्दो जातिस्वरूपोपसर्जन] द्रव्यमाह न साक्षात् ; अतस्तस्य सत्तां प्रतिपादयतो द्रव्यवाचकत्वम् , न साक्षात् ; ततोऽन्यप्रतिपत्तौ : परतन्त्रीभूतत्वाद् द्रव्यप्रतिपत्तौ स्वातन्त्र्याभावाद् द्रव्यगतघटादिभेदा[नाक्षेपात् न 'सन् ] घटः' इति । शब्दो हि यान् विशेषान् आक्षेप्तुं न शक्नोति नासौ तद्विशेषवाचिभिः शब्दान्तरैः सामानाधिकरण्य[मनु] भवति । ते च तद्भेदा ये सामान्यशब्देन आक्षिप्यन्ते नान्ये सम्भवन्तोऽपि, तद्यथा शुक्लशब्देन मधुरादेः। द्रव्ये मधुरादीनामनाक्षेपोऽनाक्षेपाच्च न तद्भेदत्वमतद्भेदत्वाच्च न तद्वाचिभिः सामा[नाधिकरण्यम् ] । [सच्छब्देन] जातिः ख्याप्यते सत्तालक्षणा। तत्र प्रवृत्तस्तद्वत्युपचर्यतेऽसौ । न च यः शब्दो यत्रोपचर्यते [स तस्य वाचकः] । न हि यो यत्रोपचारतो वर्तते स तमर्थं परमार्थतो ब्रवीति यथा सिंहशब्दो माणवकम् ।