________________
आह्निकम् ]
प्रमाणप्रकरणम् निश्चीयते । भवद्भिरपि च विशेषणज्ञानपूर्विका विशेष्यावगतिरङ्गीकृतैव, यथाह कणव्रतः, “समवायिनः श्वैत्याच्छ्व्यैत्यबुद्धेश्च श्वेते बुद्धिस्ते कार्यकारणभूते” इति।
यत्पुनरभिहितम्, आलम्भनविशसनप्रोक्षणादिक्रियायोगाद् व्यक्तिः शब्दार्थ इति, तदप्यनैकान्तिकम्, जातावपि क्वचित् क्रियायोगदर्शनात् 'श्येनचितं 5 चिन्वीत' इति ।
नन्वत्रापि व्यक्तेरेव कार्याङ्गता नामूर्त्ताया जातेः । मैवम् । न हात्र श्येनः साधनत्वेन निर्दिश्यते 'पशुना यजेत' इतिवत् । 'कर्मण्यग्न्याख्यायाम्' इति त्वभियुक्तस्मरणाच्चयननिर्वर्त्यः श्येन इति शब्दार्थोऽवगम्यते । न च श्येनव्यक्तिश्चयनेन निर्वर्तयितुं पार्यते । अग्न्याख्यायामिति स्मयते, न हीष्टका- 10 निचयेन पतत्री अभिनिर्वत्तते तदाकारस्त्वग्निरभिनिर्वय॑ते इत्यत्र जातेः क्रियाङ्गत्वम्, न व्यक्तः ।
ननु व्यक्त्या सादृश्यं सम्पादयिष्यते ? न शक्यते सम्पादयितुम, व्यक्तयन्तरवैसादृश्यस्यापि सम्भवाद्, यो ह्येकया व्यक्त्या सदृशः सोऽन्यविसदृशो भवति ।
15 : यत्त्वमूर्त्तत्वाज्जातेः न क्रियाङ्गत्वमिति, नैष दोषः, अमूर्तानामपि गुणकर्मणां क्रियासाधनतयोपपत्तेः । 'अरुणया क्रीणाति' 'अभिक्रामञ्जुहोति', इति, व्यक्त्याक्षेपद्वारेण चालम्भनविशसनप्रोक्षणादिप्रयोगचोदनासु साधनत्वं जातेरुपपत्स्यते ।
लक्षितव्यक्तिसाध्यन्तु तत्साध्यं कार्यमिष्यते ।
यथा भूतेन्द्रियोत्पाद्यमात्मकर्तृकमुच्यते । आत्मा तावत् सर्वकर्मस्वधिकृतः कर्ता च । स चामूर्तत्वाद् देहेन्द्रियद्वारेण औदम्बरीसंमार्जनाज्यावेक्षणादीनि कार्याणि निवर्तयन् कर्ता तेषु भवति । एवं जातिरपि व्यक्तिवर्मना तन्निवर्तयन्ती साधनतां लप्स्यते ।
अतश्च जातिरेवाङ्गमिति मीमांसका जगुः । तस्याश्चेदं क्रियाङ्गत्वमन्यद्वारकमात्मवत् ।। .
20