________________
न्यायमञ्ज
.. [पञ्चमम् व्यक्तौ च शब्दार्थे इयं वा गौरियं वा गौरिति प्रतिपत्तिः स्यान्न त्वियमपि गौरिति । भवति चैवं प्रतीतिर्न चायमविद्यमाननियन्तृक एव यदृच्छाशब्दप्रयोगः प्रवर्त्तते इति नियामकमस्य चिन्त्यम् । गोत्वमेव नियामकमिति चेत् । आयुष्मन् ! साधु बुध्यसे, किन्तु तद्गोत्वमवगतमनवगतं वेति वक्त मर्हसि । नानवगतमतिप्रसङ्गाद्, अवगतञ्चेत् कुतस्तदवगच्छामः, शब्दादन्यतो वा । नान्यतः, प्रमाणान्तरासन्निधानात्, शब्दाच्चेत्, तर्हि शब्दः प्रथमतरं गोत्वे वर्तितुमर्हति, 'नागृहीतविशेषणा विशिष्टे बुद्धिः' इति न्यायात् । __ ननु जाति विशेषणत्वेन व्यक्तिञ्च विशेष्यत्वेन वक्ष्यति गोशब्द: ? न
शक्नोति वक्तुम्, अतिभारप्रसङ्गात् । न च व्यक्त्यवगतौ गतिरन्या नास्ति यत 10 इयन्तं शब्दे भारमारोपयेम । न हि वयं व्यक्तिप्रतीति भवन्तीमपह नुमहे, नापि
भवन्तों जातिप्रतीतिमपह नुमहे, उभयप्रतीतेः प्रत्यात्मवेदनीयत्वात् । उभयत्र चाभिधात्री शक्तिरतिभारः, शब्दस्यान्यतरप्रतीत्या चान्यतरप्रतीतिसिद्धेः । तत्र गोशब्दः किं जातौ वर्तमानः व्यक्तिम्, आहोस्विद् व्यक्तौ वर्तमानो जातिमाक्षि
पत्विति विचारणायां जातेविशेषणत्वात् पूर्वतरं प्रतिपत्तिरिति सैव शब्दार्थो 15 भवितुमर्हति । तस्याञ्च शब्दादवगतायां तत एव व्यक्त्यवगमः सेत्स्यतीति
नोभयत्र शाब्दो व्यापारः ।
___ ननु दण्डिशब्दादिव विशेषणञ्च जाति विशेष्याञ्च व्यक्तिं गोशब्दादेव प्रतिपत्स्यामहे, कोऽस्यातिभारः ? विषमोऽयं दृष्टान्तः, तत्र हि प्रकृतिप्रत्ययविभागेन द्वयप्रतीतिरवकल्पते, दण्डशब्दः प्रकृतविशेषणमभिवदति मत्वर्थीयप्रत्ययश्च विशेष्यमिति । गोशब्दे तु नैष न्यायः सम्भवति । तत्र न विशेषणे दण्डिशब्दो वर्तते न विशेष्ये दण्डशब्दः, इह तु गोशब्द एक एव, स च विशेषणे विशेष्ये वा वर्तेत । विशेष्ये वर्तमानो विशेषणे प्रमाणान्तरमपेक्षते, विशेषणे तु वर्तमानस्तदवगमाय विशेष्यमाक्षिपतीति न कश्चिद्दोषः । तदिदमात्मप्रत्यक्षम्, यच्छब्दे उच्चरिते व्यक्तिरवगम्यते स किं शब्दादुत जातेरिति विवेको न प्रत्यक्षः, स युक्त्यावगम्यते, शब्दस्य द्वयाभिधाने यत्नगौरवात्, विरम्य व्यापारस्य चासंवेदनात् । अन्तरेणापि च शब्दं जात्यवगमाद्वयक्तिप्रतीतिदर्शनाज्जातित एवैषा व्यक्तिप्रतीतिः । जातिप्रतीतिश्च शब्दादिति
20