SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ आह्निकम् ] प्रमाणप्रकरणम् यत् पुनर्विद्यते नान्तर्न बहिस्तेन रज्यते । विज्ञानमिति मायैषा महती धूर्तनिर्मिता ॥ विषया एव बुद्धीनामाञ्जस्येनोपरञ्जकाः । वासना विषयज्ञानजन्यत्वान्न तथोदिताः ॥ तस्मात् तत्र देशान्तरादौ वसता केनचिदर्थेन बुद्धयो रज्यन्ताम्, एकान्ता- 5 सता तु केनचिदारोपितेन तदुपरञ्जनमघटमानम्, मनोरथप्रायम् । न चैकान्तासन्नाकार आरोपयितुमपि शक्यते । अपि च दर्शनपृष्ठभाविनो विकल्पास्तद्व्यापारकारिणो व्यावृत्तं स्रष्टुमसमर्था व्यावृत्तिमात्रमवलम्बन्ते इति यदुच्यते तत्र दृश्यसजातीयविजातीयव्यावृत्तत्वादुभयेऽपि व्यावृत्तिमेव स्पृशेयुः । उभयावमर्षे सत्येषां पौनरुक्त्यादानर्थक्यमिति चेद्, नानर्थक्यम् । प्रमाणवर्गे 10 निपतन्तः काममनर्थका भवन्तु, अर्थान्तरं वावलम्बन्ताम्, व्यावृत्तिन्त्ववलम्बमाना अंशत आलम्बन्ते अंशतो नेति न श्रद्दध्महे । सजातीयविजातीयव्यावृत्त्योर्न च भिन्नता । यतोऽन्यतरसंस्पर्शो विकल्पे न प्रकल्पते ।। सजातीयविजातीयव्यावृत्तिविमर्शे तु दर्शनवदसाधारणग्राहिण एव 15 विकल्पाः स्युरिति सामान्यनिबन्धनसम्बन्धग्रहणादिव्यवहाराभावाच्छब्दानुमाने प्रलयं प्रतिपद्येताम् । ___व्यावृत्तिरपि बाया चेत्, तदवस्था कौमारिलदूषणाशनिः । आन्तरत्वे तु न तया विकल्पोपरागः कर्तुं शक्यते । नान्तर्न बहिरिति तु भणितिभङ्गीमात्रम् । तत् तादृशं किञ्चिन्न किञ्चिद्वा, न किञ्चिच्चेन्न, तेन विकल्पानामनु- 20 रञ्जनस्योपपादयितुमशक्यत्वाद्, अत्यन्तमसतश्च शशविषाणादेर्व्यवहारविषयत्वाभावात्, असत्ख्यातिनिरसननीतिमेवात्रोत्तरं करिष्यामः । किञ्चिच्चेन्नूनम् अन्तर्बहिर्वा तेन भवितव्यमेव । अतः कुमारिलादिष्टदूषणापनिनीषया योऽयमुत्प्रेक्षितः पन्था नूतनः, सोऽपि सङ्कटः । तस्माद् यथाध्यवसायमेवमिति ___ शुक्तिकारजतज्ञानस्य विषयाभावेऽप्युत्पद्यमानम्य तर्हि कथं सम्भव इत्या- 25 शक्याह वासना विषयज्ञानेति । तथोदिता उपरञ्जकत्वे.... ( अत्रमातृकाखण्डिता) ।
SR No.002346
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1983
Total Pages384
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy