________________
न्यायमञ्जा
[पञ्चमम्
सर्वात्मना हि दृष्टोऽर्थः पुनर्न हि न दृश्यते । प्रदर्शितं हि प्रामाण्यं गृहीतग्राहिणामपि । क्षणभङ्गे निरस्ते च देशकालादिभेदतः । गृहीतस्यापि भावस्य ग्रहणं न न युज्यते । अपि चास्मन्मते भिन्नैर्धभैर्युक्तस्य धर्मिणः । धर्मोऽस्य केनचित् कश्चित् प्रत्ययेन ग्रहीष्यते ।। विचित्रसहकार्यादिशक्तिभेदश्च धर्मिणः ।
नानोपाध्युपकाराङ्गशक्त्यभिन्नात्मता कुतः ॥
यदि च नाम निर्विकल्पकेन सर्वात्मना परिच्छिन्न वस्तु पुनः परि10 च्छिन्दन्ति विकल्पान्तराणि वैफल्यमश्नुवीरन् । किमेतावता तेषामप्रतीयमाना
र्थग्राहिता कल्पयितुं शक्यते ? न हि विरतपिपासस्य हिमकरपटलमफलमिति, तदेव रजतमिति कल्पयितुं पार्यताम्, तस्माद् दूराशामात्रमेतत् । इत्थञ्च अन्यापोहनिरात्मनि बाह्ये विकल्पानां शब्दानाञ्च विषये इष्यमाणे भट्टकुमारिलोपन्यस्तदुस्तरदूषणानामावरणकरणं न किञ्चित् पश्यामः ।
यदपि तद्रूषणापनिनीषया विकल्पप्रतिबिम्बकमारोपिताकारमात्रव्यावृत्तिच्छायोपरक्त किमपि परिकल्पितम्, तदपि न व्यवहारपदवीमवतरितुमुत्सहते।
विकल्पो नाम बोधात्मा स च स्वच्छः स्वभावतः । नासावितरसम्पर्कादृते कलुषतामियात् ।। नूनमभ्युपगन्तव्यं किञ्चिदस्योपरकम् ।
आन्तरं वासनारूपं बाह्यं वा विषयात्मकम् ।। विचित्रसहकार्यादीति । अयं भावः। न शक्तिः काचिदभिन्ना सम्भवति, अभावप्रसङ्गादिति । अतो भिन्ना साभ्युपेया। भिन्ना च स्वरूपसहकारिव्यति
रेकेण न काचिदस्ति, पूर्वमेव निराकृतत्वात् । तत्र स्वरूपशक्तेरभेदेऽपि सहकारि25 शक्तयो भिन्नाः, ता ह्यवच्छेदका धर्माः। येन चावच्छेदकेन [धर्मेण] सह स्वरूपशक्तिः
स्वविषयज्ञानोत्पादिका तस्यावच्छेदकधर्मान्तरभिन्नत्वात् [प्रस्तुततधर्म]विशिष्टधर्मिज्ञानोदयकाले कथं धर्मान्तरविशिष्टधर्मिज्ञानोदयप्रसङ्गः।
इत्थञ्चान्यापोह इति निषेधात्मनि बाह्य इति चिरन्तनबौद्धदृष्टया ।
20