________________
आह्निकम् ]
प्रमाणप्रकरणम् आकारो गौरिति, तादृशमेव गोपिण्डान्तरदर्शनान्तरजन्मनापीति विषयाभेदात् तदैक्यमुच्यते । तदल्लिख्यमानेऽपि विषयभेदो हि न प्रतिभासते इत्यत एष विकल्पो भिन्नान्यपि दर्शनानि मिश्रीकरोति, दर्शनोपारूढस्य भेदस्याग्रहणादिति ।
तदेतदपि न हृदयङ्गममभिधीयते । विकल्पास्तावद् विज्ञानक्षणस्वभावत्वा- 5 दन्योन्यं भिन्ना एव भवन्ति । यस्तु विकल्पोल्लिखित आकारोऽनुपलभ्यमानभेदः, तेभ्यो व्यतिरिक्तोऽव्यतिरिक्तो वा ? व्यतिरिक्तश्चेत् स्यात् सामान्यमेवेदं नामान्तरेणोक्तं भवति । अवास्तवत्वकृतो विशेष इति चेन्न । अवास्तवत्वे युक्त्यभावात् । अव्यतिरिक्तश्चेत् स आकारस्तहि विकल्पस्वरूपवद् भिद्यत एवेति कथं तदैक्यम्, कथं वा तदैक्ये भिन्नानामपि दर्शनानां मिश्रीकरण- 10 मवकल्पते ?
अपि च रे मूढ ! सामान्यानभ्युपगमे कुतस्त्य एकाकारविकल्पोत्पाद इति पर्यनुयुक्तेन त्वया कार्यैक्याद् विकल्पैक्यमेवेत्युक्तं भवति, कथं
चैवमनुन्मत्तो ब्रूयात् ? तस्माद् ‘एकप्रत्यवमर्शस्य हेतुत्वाद्धीरभेदिनी' इति व्यामूढभाषितम् । शब्दविकल्पयोरन्यापोहविषयत्वखण्डनम् __यदपि विकल्पानां शब्दानाञ्चान्यापोहविषयत्वसिद्धये प्रलपितम् ‘एकस्मार्थस्वभावस्य' इत्यादि, तदपि यत्किञ्चित् ।
तदुल्लिख्यमाने हि विषयभेद इति। ततो भेदाप्रतिभासादेव विषयाभेदः, तस्माच्च विकल्पैक्यमित्यतः 'केन विषयाणामैक्यं गृह्यते' इति न वाच्यम् । मिश्री- 20 करोति । एकतया व्यवस्थापयति । कथम् ? यथैव विषयैक्याद् विकल्पानामैक्यं तथा दर्शनानामपि । दृश्याध्यवसायेन विकल्पानां प्रवृत्तेरध्यवसायापेक्षया तद्विषयस्याप्यैक्यम् । तदेवाह दर्शनोपारूढस्य भेदस्याग्रहणादिति। दर्शनविषयस्य सनस्यैव विकल्पैरेकतयाध्यवसोयमानत्वाद् दृश्यभेदनिबन्धनस्य दर्शनभेदस्याग्रहणादभेद एवावतिष्ठत इत्यर्थः । ___अवास्तवत्वे युक्त्यभावाद् । भवद् युक्तीनां चायुक्तत्वादिति भावः। कार्यक्यादित्युत्तरमिति । कार्यक्यादेककार्यकारित्वाद् । विकल्पैक्यमेव कार्येक्यमिति । योऽयं विषयाभेदेन विकल्पोत्पादस्तदेव कार्येक्यम् ।
15