________________
न्यायमञ्ज
[पञ्चमम् उपसर्गनिपातानाञ्च कथमपोहविषयत्वम्, आख्यातशब्दानाञ्च पचतीत्यादीनामपोहो दुरुपपादः । नाम्नामेव जातिशब्दानामपोहविषयत्वमिष्यते, येषां भवन्तो जातिवाचित्वं तद्वद्वाचित्वं वा प्रतिपद्यन्त इति चेत् । ततोऽन्येषां
तहि का वार्ता ? बाह्यार्थवाचित्वे जातिशब्देषु को द्वेषः ? निरालम्बनत्वे 5 ज्ञानांशालम्बनत्वे वा जातिशब्दानामपि तदेवास्तु किमपोहवादप्रमादेन ।
यथैव प्रतिभामात्रं वाक्यार्थ उपकल्पितः । पदार्थोऽपि तथैवास्तु किमपोहाग्रहेण वः ।। इत्यादि दूषणौदार्यमपोहे बहु दर्शितम् ।
अतः शब्दार्थतामस्य वदेयुः सौगताः कथम् ।। 10 अपोहपदार्थनिरूपणम्
उच्यते । तदेतदविदितबौद्धसिद्धान्तानामभिधानम् ।
अपोहो यदि भावात्मा बहिरभ्युपगम्यते ।
ततो भवति भावत्कं वाग्जालं, न त्वसौ तथा ।। किन्तु खल्वयमान्तरो ज्ञानात्मा सौगतानामपोहः सम्मतः । तथाभ्यु15 पगमे केयमपोहवाचोयुक्तिः । स्वांशविषयं पदार्थज्ञानमित्येतदेव वक्तुमुचितम् । एतदपि नास्ति, नायमान्तरो न बाह्योऽपोहः, किन्तु ज्ञानार्थाभ्यामन्य एव ।
उपसर्गनिपातानामिति । प्रादिचादीनामपोह्यस्यादर्शनादस्वतन्त्रप्रयोगत्वात् तेषाम् । तथा चाह भट्टः "चादीनामपि नञ्योगो नैवास्तीत्यनपोहनम्” इति । आख्यातशब्दानाञ्चेति । पचत्यादौ हि नयोगे पाकाभावप्रतीतिर्न पाठादेवेति । तथा चाह,
आख्यातेषु च नान्यस्य निवृत्तिः सम्प्रतीयते । न पर्युदासरूपं हि निषेध्यं तत्र विद्यते ॥ न नेति ह्यच्यमानेऽपि निषेधस्य निषेधनम् । पचतीत्यनिषिद्धन्तु स्वरूपेणावतिष्ठते ॥ इति । ज्ञानार्थाभ्यामन्य एवेति धर्मोत्तरः । तथा चाहासौ बुद्धया कल्पिकया विविक्तमपरैर्यद्रूपमुल्लिख्यते । बुद्धि! न बहिर्यदेव च वदन् निस्तत्त्वमारोपितम् । यस्तत्त्वं जगतो जगाद विजयो निःशेषदोषद्विषां वक्तारं तमिह प्रणम्य शिरसापोहः स्म विस्तार्यते ॥ इति ।