________________
आह्निकम् ]
प्रमाणप्रकरणम् ननु यद् विद्यते नान्तर्न बहिः परमार्थतः । न तु विद्यत एवेति कथं शब्दार्थ उच्यते । पारमार्थिकशब्दार्थसमर्थनपिपासिताः ।
नेहागताः स्मो येनैवमनुयुज्येमहि त्वया ॥ यत एव तन्नान्तर्बहिरस्ति तत एव मिथ्येति काल्पनिकमिति च गीयते। 5 किं पुनस्तत् ? आरोपितं किञ्चिदाकारमात्रं विकल्पोपरञ्जकम् । ननु बाह्यार्थव्यतिरेकेण किमीय आकारः आन्तरान्तरस्य ज्ञानस्योपरञ्जक उच्यते । दृश्यच्छायैवानुरञ्जिका विकल्पना, नेदृशोऽर्थः । व्यावृत्तं हि वस्तु दर्शनानां विषयः, तच्च स्प्रष्टुमक्षमा विकल्पा इत्युक्तम् । अथ तच्छायामवलम्बमाना विकल्पा व्यावृत्तस्याग्रहणाद् व्यावृत्तिविषया इत्युच्यन्ते ।
ननु व्यावृत्तितद्वतोरभेदाद् व्यावृत्तिर्यच्च व्यावृत्तं स्वलक्षणं तदेकमेवेति व्यावृत्तिग्राहिभिर्विकल्पव्यावृत्तमपि गृहीतं स्यादिति दर्शनतुल्या भवेयुः ? नैतदेवम् । न विकल्पैावृत्तं वस्तु गृह्यते न च पारमार्थिकी व्यावृत्तिः, अपि तु कश्चिदारोपित आकारः । वास्तवत्वे हि व्यावृत्तेः वस्तुसंस्पशिन एव दोषाः ।। प्रादुःष्युः, न त्वसौ तथेत्युक्तम् । अत एव यत् केचन पर्यचूचुदन् किल व्यावृत्त- 15 ग्रहणपक्षे त्रितयग्रहणं प्राप्नोति यद्व्यावृत्तम्, येन निमित्तेन व्यावृत्तम्, यतश्च व्यावृत्तमिति; न च त्रितयमस्तीत्यतः कथं व्यावृत्तग्रहणमिति, तदप्यपास्तं
10
ननु बाह्यार्थव्यतिरेकेणेति। विकल्पो हि ज्ञानविशेषस्तस्य योऽयं ग्राह्यानुरागः स कथं बाह्यं विना सम्भवति । स्वत एव तथात्वे निर्विकल्पेऽपि तथा भावाद् बाह्यार्थाभावप्रसङ्गात् । दृश्यच्छायैवानुरञ्जिकेति। स्वलक्षणग्राहिदर्शन- 20 समनन्तरभावेन विकल्पानां लाक्षानन्तरस्फटिकशकलसमनन्तरवर्तिन इव स्फटिकशकलान्तरस्य लाक्षाच्छायाधारित्वं दृश्यच्छायाधारिता। तच्च स्प्रष्टुमक्षमा। अस्पष्टत्वात् प्रतीतेः, प्रमाणान्तरवैयर्थ्यप्रसङ्गाच्चेति । व्यावृत्तस्याग्रहणादिति । यदि हि व्यावृत्तिमपि न विषयीकुर्युः कथं प्रकारान्तरस्याभावात् तच्छायावलम्बिनः स्युः । तच्छायानवलम्बित्वे च सादृश्याभावात् तदध्यवसायेन बाह्ये प्रवृत्तिर्न स्यात् । 25 ___अपि तु कश्चिदारोपित आकार इति । यदेव च तस्यारोपितस्याकारस्य ग्रहणं स एव तेन रूपेण बाह्याध्यवसाय इत्यतो बाह्यव्यावृत्तिविषयत्वाभिमानः ।