________________
आह्निकम् ]
प्रमाण प्रकरणम्
१३
किं तदपोहेन प्रयोजनम् । पूर्वसिद्धं गोस्वलक्षणमस्त्येवेति चेन्न, व्यवहारीभावात् । गोसामान्ये तु पूर्वसिद्धे मुधापोह प्रयत्न इत्युक्तम् ।
अथ गोसामान्यमगोप्रतिषेधेन सिद्ध्यति, तदा दुस्तरमितरेतराश्रयत्वम् । अगोनिषेधेन गोसिद्धिः, गोसिद्धया चागोनिषेधसिद्धिरिति । तस्मादपोहस्यैव निरूपयितुमशक्यत्वान्न तद्भेदादपोहभेदः सिद्ध्यति ।
अपि च अश्वादयः सामान्यरूपेण वापोह्येरन् विशेषात्मना वा ? न विशेषात्मना, तदनङ्गत्वाद् अशब्दवाच्यत्वाच्च । सामान्यात्मना तु तेषामप्यपोहरूपत्वादभावत्वम् । कथञ्चाभावस्यैवाभावः क्रियते, करणे वा प्रतिषेधद्वययोगाद् विधिरवतिष्ठत इति विधिरूपः शब्दार्थः स्यात् । अपोह्यात्मनश्च तुरगादेर्योपोहः स तस्माद्विलक्षण:, अन्यथा वा ? वैलक्षण्ये तस्य भावात्मता भवेत्, 10 अवैलक्षण्ये तु यादृश एव अपोह्यस्तादृश एव तदपोह इति गौरप्यगौः स्यात् ।
किञ्च अपोहशब्दार्थपक्षे नीलमुत्पलमित्यादौ विशेषणविशेष्यभावसामानाधिकरण्यादिव्यवहारा विलुप्येरन् । न ह्येकस्मिन्नर्थे द्वयोरपोहयोर्वृत्तिरुपपद्यते । न चैकः कश्चिदर्थोऽस्ति यत्र तयोर्वृत्तिः, स्वलक्षणस्याशब्दार्थत्वाद् अन्यस्य चासम्भवात् ।
न च वृत्तिरपि काचिदस्ति । सज्ज्ञेयादिशब्दानामपोहनिरूपणासम्भवान्नापोहवाचित्वम् । न ह्यसदज्ञेयं वा किंचिदवगतं यद् व्यवच्छिद्यते । ज्ञातञ्चेत् सदेव तज्ज्ञेयञ्चेत्यतः कथं सच्छब्देन सदेव ज्ञेयशब्देन च ज्ञेयमेवापोह्यते । अज्ञातन्तु नितरामनपोह्यम् । कल्पितन्तु तद्वक्तुमशक्यम्, कल्पनयैव सत्त्वाज्ज्ञेय
त्वाच्च ।
अपोहशब्दस्य च किं वाच्यमिति चिन्त्यम् । अनपोहो न भवतीत्यपोहः, कश्चायमनपोहः ? कथं वा असौ न भवति, अभवन् वा किमवशिष्यत इति सर्वमवाचकम् । प्रतिषेधवाचिनाञ्च नञादिशब्दानां का वार्त्ता ? अत्र न भवतीति, नेति कोऽर्थ : ?
5
तस्माद् विलक्षणः । तुरगादेरपोहरूपाद् विलक्षणः । न च वृत्तिरपि काचिदस्ति । अभावरूपत्वात् । कल्पनयैव । कल्पितेनैव रूपेण ।
15
20
25