________________
न्यायमञ्जऱ्यां
[पञ्चमम् भावात्, भिद्यमानत्वे वा स्वलक्षणवदेषां वस्तुत्वप्रसक्तिः । भवत्पक्षेऽपि सामान्यमात्रवाचित्वाविशेषात्पर्यायत्वं समानो दोष इति चेन्न । सामान्यानां विधिरूपत्वात् परस्परसंरहितस्वभावतया नानात्वावगमात् । अपोहस्त्वभाव
मात्ररूपविशेषान्न परस्परं भिद्यते। कर्कादिशाबलेयाद्याधारभेदादपोहभेद इति 5 चेन्न । तेषामाधारत्वस्य निरस्तत्वात्, आधारभेदेन वा तद्भेदाभ्युपगमे प्रतिस्वलक्षणमपोहतद्भेदप्रसङ्गः । ततश्च सामान्यात्मतास्य हीयते ।
अथापोह्यभेदेनापोहभेदमवधार्य पर्यायता पराणुद्यते, तदप्यसारम् । भवन्नपोहिभेदाद् भेदो न पर्यायत्वमपहन्ति, भाक्तो ह्यसौ न मुख्यः । न चापोह्यभेदा
द्भेदोऽपोहस्यावकल्पते, यो हि सम्भाव्यमानसंसर्गराधारैरपि न भेत्तुं पार्यते 10 स दूरतिभिरलब्धसम्बन्धैरतिबायैः कथं भिद्येत ?
___ अभ्युपगम्यापि ब्रूमः । यद्यपोह्यभेदादपोहभिन्नत्वमपोझैक्यातहि तदैक्येनापि भवितव्यम्, अतश्च गवाश्वयोरन्यापोहेन व्यवस्थाप्यमानयोरगावोऽनश्वाश्च हस्त्यादयोऽपोह्यास्तुल्या भूयांसो वा भवन्ति, असाधारणस्तु एको गौरश्वे गवि चाश्वोऽतिरिच्यते तत्र । इहापोह्यभेदाद् गवाश्वयोर्भेदो भवतु भूयसामपोह्यानामभेदादभेदो भवत्विति विचारणायां 'विप्रतिषिद्धधर्मस्य समवाये बहूनां स्यात्सधर्मत्वम्' इत्यभेद एव न्याय्यो भवेत् ।
__अथ साधारणत्वादश्वापोह्य एव गौरपोहेन व्यवस्थाप्य इष्यते ? स तर्हि सिंहादावप्यस्तीति सोऽपीदानी गौर्भवेत् । अथाश्वादिविशेषोद्घोषरहितमगो
रूप्यं व्यवच्छेद्यमुच्यते, तत् प्रत्येकं ग्रहीतुमशक्यम्, आनन्त्यात्, वर्गीकरण20 कारणञ्च किञ्चिन्नास्त्येव । न हि सर्वेषामगवामश्वादीनामेकदेशत्वमेककालत्वं वा समस्ति ।
अथ गोप्रतिषेध एव वर्गीकरणहेतुरिष्यते, हन्त ! तर्हि गौः पूर्वसिद्ध एषितव्यः, यत्प्रतिषेधेनागावः प्रतीयेरन् । पूर्वसिद्धे च गवि लब्धे किमगोभिः
25
अपोहभेदादिति । केषाञ्चिद् अगोऽपोहोऽर्थः, केषाञ्चिद् अनश्वापोह इति ।
विप्रतिषिद्धधर्मेति । विप्रतिषिद्धधर्माणां विरुद्धधर्माणामेकत्र समवायप्राप्ती सत्याम् । बहूनां सधर्मत्वम् । बहूनां ये धर्मास्ते ग्राह्या इत्यर्थः ।