________________
आह्निकम् ]
प्रमाण प्रकरणम्
भट्टमतेनापहः शब्दार्थ इति मतनिरासः
नन्वपोहशब्दार्थपक्षे महतीं कृपाणवृष्टिमुत्ससर्ज भट्टः । तथा हि पोहो नाम व्यावृत्तिरभाव इष्यते । न चाभावः स्वतन्त्रतया घटवदवगम्यते । तदयमन्याश्रितो वक्तव्यः, कश्च तस्याश्रय इति चिन्त्यम् । न तावद् भोः स्वलक्षणमाश्रयः, तस्य विकल्प भूमित्वाभावात् । नाप्यवान्तरसामान्यं शाबलेयत्वादि तदाश्रयः, तद्धि अशाबलेयनिवृत्तेराश्रयतां प्रतिपद्यते, न ह्येवमुपपद्यते अशाबलेयो भवतीति गौः किं तु शाबलेय इति, शाबलेयव्यावृत्तिर्हि गोष्वपि बाहुलेयादिष्वस्ति ।
११
"
अथ वा शाबलेयादिस्वलक्षणसमुदायमगोव्यावृत्तेराश्रयं ब्रूयुः सोऽप्यघटमान एव, समुदायिव्यतिरेकेण तस्यानुपलम्भात् । समुदायिनाञ्च स्वलक्षणानां देशकालादिभेदेनानन्त्याद्वर्गीकरणं पुरुषायुषशतेनापि न शक्यक्रियमिति समुदायोऽपि न तदाश्रयः । तस्मात् सर्वसाधारणं प्रतिपिण्डं परिसमाप्तं किमपि नूतनमगोव्यावृत्तेरधिकरणमभिधातव्यम् । तच्च गोत्वमेव । तस्मिन्नङ्गीकृते वा किमगोव्यावृत्तिकल्पनायासेन ।
अपि च न केवलमाश्रयाभावात्तदग्रहणं सम्भवति, न च वर्गीकरणे निमित्तमेषां किंचिदस्ति । अश्वादयश्च विधिरूपतया भवन्मते न गृह्यन्ते, किन्त्वन्यव्यवच्छेदेनैवेति । तेषामपि व्यवच्छेदग्रहणे सैव वार्त्तेति, नेदानों विकल्पैः क्वचिदपोहो विषयीकर्तुं शक्यते, निर्विकल्पेन च न कश्चिद् व्यवहार इति सकलयात्रोत्सादप्रसङ्गः । किञ्च य एते शाबलेयादिशब्दास्ते सर्व एवापोहवाचित्वाविशेषात् पर्यायाः स्युः । अपोहभेदाददोष इति चेन्न । अपोहानां भेदा
महतीं कृपाणवृष्टिमिति । तथाहि भट्ट आह, अनिवृत्तिः सामान्यं वाच्यं यैः परिकल्पितम् । गोत्वं वस्त्वेव तैरुक्तमगोऽपोहगिरा स्फुटम् ॥ भावान्तरमभावो हि पुरस्तातु प्रतिपादितः । तत्राश्वादिनिवृत्त्यात्मा भावः क इति कथ्यताम् ॥ इत्यादि ।
न च वर्गीकरणे निमित्तमिति । एकदेशकालादि । अपोहानां भेदाभावात् ।
अभावरूपत्वादिति भावः ।
5
10
15
20
25