________________
न्यायमञ्जयां
[पञ्चमम् भवतीति, न तु गोः स्वलक्षणग्रहणे तेषां व्यापारः, प्रागेव गृहीतत्वात् । - अथ ब्रूयात् नानाविशेषणनिकरकल्माषितवपुषस्तस्यार्थस्य किञ्चिद् विशेषणं गृहीतं विकल्पैर्गृह्यत इति, तदप्ययुक्तम् । विशेषणनिकररूषितस्यापि
वस्तुनः तद्विशेषणोपकारशक्तिव्यतिरिक्तात्मनोऽनुपलम्भात् तदभेदे सति 5 तद्विशेषेणोपकार्यवस्तुस्वरूपग्रहणवेलायामेव तत्त्वात् तच्चित्रग्रहणासिद्धेविकल्पान्तराणामानर्थक्यमेव । तदुक्तम्, यस्यापि नानोपाधेनिर्वाहिकार्थस्य भेदिनः, तस्यापि
नानोपाध्युपकाराङ्गशक्त्यभिन्नात्मनो ग्रहे।
सर्वात्मनोपकार्यस्य को भेदः स्यादनिश्चितः ॥ इति । तस्मादपोहविषयाः शब्दा विकल्पश्चेति ।
नानाविशेषणनिकरेति । नानाभूतानि विशेषणानि गोत्वशाबलेयत्वद्रव्यत्वादीनि । तद्विशेषणोपकारशक्तिव्यतिरिक्तात्मनोऽनुपलम्भादिति। अस्यायमभिप्रायः। धर्मिणः सकाशादमी भिन्ना अभिन्ना वा, भिन्नाश्चेदभ्युपगम्यन्ते तदा भिन्नानां सम्बन्ध उपकारं
विना न घटत इति धर्मिणस्तदुपकारिका शक्तिः कल्प्या। सा च कल्प्यमाना एका 15 अनेका वा कल्प्येत । अनेकाश्चेत् तासामपि शक्तीनां ततो भेदोऽङ्गीकर्तव्यः, न ह्येक
स्यानेकात्मकत्वं सम्भवतीति । भिन्नानाञ्च सम्बन्ध उपकाराभावे न सम्भवतीत्यपरापरोपकारशक्तिकल्पनायामनवस्थाप्रसङ्गः। अथैका अभिन्ना चेति पक्षस्तदपेक्षयेदमुक्तं तद्विशेषणेति । यस्यापि नानोपाधेरिति । यस्यापि वैशेषिकादेः परस्परमाश्रयतश्च
भिन्ना नानाभूता उपाधयो द्रव्यत्वादयो विशेषणानि यस्य तस्य नानोपाधेरर्थस्योपाधि20 भेदादेव भेदिनो निश्चयात्मिका धोविधिमुखेनैव ग्राहिका, प्रत्युपाधि च भिन्नेति मतम्,
तस्यापि पक्षे नानाभूतानामुपाधीनां द्रव्यत्वादीनामुपकारस्याङ्गं कारणं या शक्तिस्तदभिन्नात्मन उपाधिमत एकेन निश्चयज्ञानेन ग्रहे निश्चये सर्वात्मना कृते सत्युपकार्यस्योपाधिकलापस्य मध्यात् को भेदः क उपाधिविशेषोऽनिश्चितः स्यात् । सर्व एव निश्चित इत्यर्थः, इत्येवमिदं धर्मकीत्तिवात्र्तिकं व्याचक्षते । अस्मिंश्च व्याख्याने तद्विशेषणोपकार्यवस्तुस्वरूपग्रहणवेलायामेवेत्यत्र तानि विशेषणान्युपकार्याणि यस्य वस्तुनस्तद्विशेषणोपकार्यमिति विग्रहः कर्तव्यः।