________________
आह्निकम् ]
प्रमाणप्रकरणम् अव्यतिरेके च सम्बन्धवाचोयुक्तिरनुपपन्नेत्युक्तम् । न च रूपरूपित्वलक्षणसम्बन्धः संयोगसमवायव्यतिरिक्तः कोऽपि श्रोत्रियैर्विविच्य व्याख्यातुं शक्यते यथा ईदृगिति । तस्माद्वाचोयुक्तिनूतनतामात्रमिह कृतं न त्वर्थः कश्चिदुत्प्रेक्ष्यत इत्यलं प्रसङ्गेन । व्यक्तर्जात्याश्रयत्वेऽनुपपत्तयः अपि चेयं जातिः
सर्वसर्वगता वा स्यात् पिण्डसर्वगतापि वा। सर्वसर्वगतत्वे स्यात् कर्कादावपि गोमतिः ।। अश्वधीः शाबलेयादावुष्ट्रबुद्धिर्गजादिषु । पदार्थसङ्करश्चैवमत्यन्ताय प्रसज्यते ॥ अथापि व्यक्तिसामर्थ्यनियमान्नैष सङ्करः । न हि कर्कादिपिण्डानां गोत्वादिव्यक्तिकौशलम् ॥ मैवं खण्डाद्यभिव्यक्त मपि गोत्वमनंशकम् । सर्वत्रैव प्रतीयेत न वा सर्वगतं भवेत् ॥ तद्देशग्रहणे तस्य न हि किञ्चिन्नियामकम् । दीपवद् व्यञ्जकः पिण्डो न तु तत्पिण्डवृत्ति तत् ।। सर्वत्र गृह्यमाणञ्च सर्वत्रास्तीति मेऽन्वयः । सर्वसर्वगतं तस्मान्न गोत्वमुपपद्यते ॥ पिण्डसर्वगतत्वे तु काममेतददूषणम् । किन्तु नैवाद्य जातायां गवि गोप्रत्ययो भवेत् ॥ पिण्डे नासीदसञ्जाते जातिर्जाते च विद्यते । सङ्क्रामति न चान्यस्मात् पिण्डादन्यत्र निष्क्रिया। आयान्त्यपि न तं पिण्डमपोज्झति पुरातनम् ।
न चांशैर्वर्त्तते तत्र कष्टा व्यसनसन्ततिः ।। तत्र भट्टमतम्
भट्टास्तु ब्रुवते भिन्नाभिन्नमेकम् ।
200