________________
5
15
20
न्यायमञ्जय
[ पञ्चमम्
सिद्धिरैक्येन सिद्धिरवतिष्ठते, तथा च सति सम्बन्धो दुर्वचः। अवयवावयविनोरपि समवायात्मा सम्बन्ध एवमेव परिहर्त्तव्यः । यथाह भट्ट: 'नानिष्पन्नस्य सम्बन्धो निष्पत्तौ युतसिद्धता ।' इति ।
प्रभाकरमतविवेचनम्
?
सुशिक्षितास्तु रूपरूपित्वलक्षणमाचक्षते जातिव्यक्तयोः सम्बन्धम् । सोऽपि नोपपद्यते । रूपशब्दः किं शुक्लादिवचनः, आकारवचनः, स्वभाववचनो वा 10 शुक्लादिवचनत्वे नीरूपाणां पवनमनः प्रभृतीनां द्रव्याणां गुणकर्मणाञ्च सामान्यशून्यता स्यात् । आकारवचनत्वेऽपि अवयवसन्निवेशरहितानां तेषामेव गुणादीनां सामान्यवत्ता न प्राप्नोति । स्वभाववचनत्वे तु जातिजातिमतोरव्यतिरेक एव भवेत् ।
अवभाति हि भेदेन स्वभावो न स्वभाविनः । शब्दातिरिक्ततैवेयं न तु वस्त्वतिरिक्तता ॥
किञ्चेदं रूपं नाम, किं वस्त्वेव वस्तुधर्मो वस्त्वन्तरं वा ? वस्त्वन्तरं तावन्न प्रतिभातीत्युक्तम् । वस्तुधर्मोऽपि तद्व्यतिरिक्त तया स्थितो न चकास्त्येव ।
25
४
परमाण्वाकाशयोः परमाणुकालयोश्च सम्बन्ध इष्यते नाकाशकालयोरन्योन्यमिति प्रक्रियैवेति अलमवान्तरचिन्तनेन । तस्मान्न जातिव्यक्तयोः काचिद् वृत्तिरुपपद्यते ।
नानिष्पन्नस्य सम्बन्ध इत्यस्य पूर्वमर्धम् ' न चाप्ययुतसिद्धानां सम्बन्धित्वेन कल्पना' इति ।
सुशिक्षितास्त्विति प्राभाकराः । ते हि सामान्याकारं रूपं पदार्थस्याहुः । न च रूपं रूपिशून्यमुपलभ्यते । पदार्थान्तराणां हि स्वरूपेण लब्धात्मलाभानामवगतानाञ्च परस्परसम्बन्धचिन्ता क्रियमाणोपपद्यते, रूपस्य त्वाकृष्टरूपिप्रतिपत्तेरेव प्रतिपत्तिरिति अन्य एव सम्बन्धान्तरविलक्षणोऽयं सम्बन्ध इति का अनयोः सम्बन्धं प्रति विमतिः " कथं वृत्तिः" इत्यादिति । तथा चाहु: 'सम्बन्धितया ह्यनवगम्यमानं सामान्यं सामान्यम् इति नावगम्यते । सम्बन्ध्यन्तरसव्यपेक्षा हि सम्बन्ध्यन्तरबुद्धिः । विशेषतश्चात्र रूपतया सम्बन्धितावगम्यते । न च रूपिशून्या रूपबुद्धिरस्ति । रूपतैव तदा न स्यात् ' इति ।