________________
आह्निकम् ]
प्रमाण प्रकरणं
एकदेशेन वृत्तौ तु गोत्वजातिर्न कुत्रचित् । समग्रास्तीति गोबुद्धिः प्रतिपिण्डं कथं भवेत् ॥
जातेश्च निरवयवत्वान्न केचिदेकदेशाः सन्ति यैरेषा प्रतिपिण्डं वर्त्तते । न चैकत्र पिण्डे समाप्त्या वर्त्तमाना पिण्डान्तरे समाप्त्यैव वर्त्तितुमर्हति, समाप्तस्य पुनरुत्पत्ति विना समाप्त्यन्तरानुपपत्तेः, तथाभूतस्य वृत्तिप्रकारस्य क्वचिदप्यदर्शनात् ।
वैशेषिक सिद्धसमवायखण्डनम्
या च समवायात्मिका पिण्डेषु वृत्तिः सामान्यस्य औलूक्यैरुच्यते तामपि न बुद्धयामहे वयम् ।
अयुतसिद्धानामाधार्याधारभूतानां यः सम्बन्ध इहप्रत्ययहेतुः स समवाय इति यदुच्यते तद्विप्रतिषिद्धम् । अयुतसिद्धता च सम्बन्धश्चेति कथं सङ्गच्छते । पृथसिद्धे हि वस्तुनी कुण्डबदरवदन्योन्यं सम्बध्येते स्त्रीपुंसवद्वा । अयुतसिद्धे तु तदेकत्वात् किं केन सम्बध्यते । द्रव्यगुणयोरपृथसिद्धयोरपि सम्बन्धो विद्यत एवेति चेत्, तदिदं मन्ये उन्मत्तस्योन्मत्तसंवर्णनम् । गुणिनोऽपि गुणव्यतिरिक्तस्यानुपलम्भाद् अयं गुणी रूपादिभ्योऽर्थान्तरत्वेन नात्मानमुपदर्शयति 15 व्यतिरेकञ्च तेभ्यो वाञ्छतीति चित्रम् ।
यदपि नित्यानित्यविभागेन युतसिद्धेः स्वशास्त्रे परिभाषणं कृतम्, नित्यानां परमाणूनां पृथग्गतिमत्त्वं युतसिद्धिरनित्यानान्तु युताश्रयसमवायित्वम्, विभूनान्तु परस्परमाकाशादीनां सम्बन्ध एव नास्तीति तदपि प्रक्रियामात्रम् । नानात्वेन सिद्धिर्निष्पत्तिर्ज्ञाप्तिर्वा युतसिद्धिरित्युच्यते तद्विपर्ययादयुत
॥ ॐ नमः शिवाय ॥
उन्मत्तस्योन्मत्तसंवर्णनमिति । यथा उन्मत्त उन्मत्तान्तरं श्लाघत एवमलब्धवृत्ति सामान्यं तथाविधमेवालब्धवृत्ति द्रव्यं प्रदर्शयतीति ।
अनित्यानान्त्विति । तन्तुपटादीनां युतेषु भिन्नेष्वाश्रयेषु समवायित्वं तन्तूनामंशुषु समवायात् पटस्य तन्तुष्विति । विभूनान्तु परस्परमाकाशादीनामिति । पृथग्गतिमत्त्वयुताश्रयसमवायित्वयोरभावात् ।
10
20
25