________________
5
10
15
20
25
२
न्यायमञ्जय
इदन्तु चिन्त्यताम्, जातेरेव प्रमाणातीतत्वेन शशशृङ्गवदविद्यमानत्वात् कथं तद्वान् पदार्थो भविष्यति । तथा हि न तावत्सामान्यग्रहणनिपुणमक्षजं ज्ञानं भवितुमर्हति, तस्य पूर्वापराननुस्यूतस्वलक्षणमात्रपरिच्छेदपरिसमाप्तव्यापारत्वात् ।
[ पञ्चमम्
समानवृत्तिता नाम सामान्यस्य निजं वपुः । कथं स्पृशति सापेक्षमनपेक्षाक्षजा मतिः ॥
समानेष्वाकलितेषु तद्वृत्तिसाधारणरूपमवधार्य सामान्यं गृह्यत इति सापेक्षं तत्स्वरूपग्रहणम्, इयञ्च प्रथमनयनसन्निपातसमुद्गतमतिः पूर्वापरानुसन्धानबन्ध्या निरपेक्षा कथं तद्ग्रहणाय प्रभवेत् । तत्पृष्ठभाविनस्तु विकल्पाः स्वभावत एव वस्तुसंस्पर्शकौशलशून्यात्मान इति तद्विषयीकृतस्यापि सामान्यस्य न परमार्थसत्त्वं भवितुमर्हति न चानुमानं शब्दो वा सामान्यस्वरूपवास्तवत्वव्यवस्थापनसामर्थ्यमश्नुते, शब्दलिङ्गयोर्विकल्पविषयत्वेन वस्तुग्राहित्वासम्भवात् । तत्प्राप्त्यादिव्यवहारस्तु प्रकारान्तरेण दर्शयिष्यते । व्यक्तिव्यतिरिक्तजातिखण्डनम्
"
,
अतश्च न व्यक्तिव्यतिरिक्तं सामान्यं भेदेनानुपलम्भात् । तथाहि, कुवलयामलकबिल्वादीनि करतलवर्तीनि पृथगवलोक्यन्ते न जातिव्यक्ती इति नः तयोर्भेदः । देशभेदस्य चाग्रहणाद् यत्खलु यतोऽतिरिक्तं तत्तदधिष्ठितदेशव्यतिरिक्त देशाधिष्ठानमवधार्यते घटादिव पटः । न चैवं जातिव्यक्ती इति न तयोर्भेदः । अतश्चैवं तदग्रहे तद्बुद्ध्यभावात्; यद्धि यतो व्यतिरिक्तं तस्मिन्नगृह्यमाणेऽपि गृह्यते घटादिव पटः । न च व्यक्तावनुपलभ्यमानायां जातिरुपलभ्यते तस्मान्न ततोऽसौ भिद्यते । तद्वृत्तित्वात्सामान्यस्य तदग्रहे तदनुपलब्धिरिति चेन्न, वृत्त्यनुपपत्तेः ।
जातिव्यक्त्योः सम्बन्धासिद्धिः
किं प्रतिपिण्डं कार्त्स्न्येन वर्त्तते जातिरुतैकदेशेनेति । द्वयमपि चानुपपन्नम् । पिण्डे सामान्यमन्यत्र यदि कात्स्र्त्स्न्येन वर्त्तते । तत्रैवास्य समाप्तत्वान्न स्यात् पिण्डान्तरे ग्रहः ॥