SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ 11 77: 11 न्यायमञ्जरी प्रमाणप्रकरणम् प्रपन्नाय विपन्नानां दुःखितानां सुखात्मने । सम्पूर्णाय दृढाशानां नमोऽकारणबन्धवे ।। शब्दार्थस्यावास्तवत्वखण्डनोपक्रमः अथ यदुक्तं वास्तवस्य शब्दार्थस्याविद्यमानत्वादर्थासंस्पर्शिनः शब्दा इति तत्प्रतिविधीयते । द्विविधः शब्दः पदं वाक्यञ्च । तत्र पदार्थ पूर्वकत्वाद् वाक्यार्थस्य प्रथमं पदार्थो निरूप्यते । पदार्थनिरूपणे पदस्वरूपम् पदञ्च द्विविधं नाम आख्यातञ्च । उपसर्गनिपातकर्मप्रवचनीयानामपि नामान्तर्भावमाचक्षते । तदुक्तं सुप्तिङन्तं पदमिति । इहापि सूत्रकृदाह 'ते विभक्तयन्ताः पदम्' इति । तत्र तिङन्तपदार्थचिन्ता वाक्यार्थविचारावसर एव करिष्यते तदौपयिकत्वात् । सुबन्तानां त्वर्थोऽयमुच्यते । ते च चतुर्विधाः सुबन्ताः पदात्मानः शब्दा भवन्ति, जातिशब्दाः, गुणशब्दाः, द्रव्यशब्दाः, कियाशब्दा इति । तत्र गवादिजातिशब्दानां गोत्वादिजात्यवच्छिन्नं व्यक्तिमात्रमर्थो यस्तद्वानिति नैयायिकगृहे गीयते । ननु शुक्लादिगुणाधिकरणं क्रियाश्रयश्च द्रव्यं व्यक्तिः, सास्नाद्यवयवसन्निवेशात्मिका आकृतिः, शाबलेयादिसकलगोपिण्डसाधारणं रूपं जातिरिति व्यक्तयाकृतिजातिसन्निधाने समुच्चारित एष गोशब्दः कथमितरतिरस्कारेण तद्वन्मात्रवचनतामवलम्बते, आह वितता त्वियं कथा वर्तयिष्यते तावत् । 10 15
SR No.002346
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1983
Total Pages384
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy