________________
न्यायमञ्जयां
[पञ्चमम् वस्तुबुद्धिर्हि सर्वत्र व्यावृत्त्यनुगमात्मिका ।
जायते द्वयात्मकत्वेन विना सा च न सिद्धयति । केवलविशेषात्मकपदार्थपक्षे सामान्यप्रतीते लम्बनत्वं सामान्यमात्रवादे विशेषबुद्धेरनुपपत्तिः ।
न चाप्यन्यतरा भ्रान्तिरुपचारेण गम्यते ।
दृढत्वात् सर्वदा बुद्धे_न्तिस्तद्भ्रान्तिवादिनाम् ॥ न हि मिहिरमरीचिनिचयनीरप्रतीतिवत् सामान्यप्रत्ययोपमर्दैन विशेषप्रतीतिः, विशेषप्रत्ययोपमर्दैन वा सामान्यप्रतीतिरुदेति, किन्तु अविरोधेनैव
युगपदुभयावभासः । अत एव निर्विकल्पबोधेन द्वयात्मकस्यापि वस्तुनो 10 ग्रहणमुपेयते । तन्मतनिरसनम् तदेतदभिधीयमानमेव न मनोज्ञमिवाभाति ।
नानारूपं त्वयैकस्य विरुद्धं वदता स्वयम् ।
दूषणादानमौखर्यमस्माकमपवारितम् ॥ 15 तदेव सामान्यं स एव विशेषः, तदेवैकं तदेव नाना, तदेव नित्यं तदेवानित्यम्, तदेवास्ति नेति चादृष्टमिदमुच्यते, उच्यमानमपि न शोभते । '
दृष्टत्वान्न विरोधश्चेन्न तथा तदवेदनात् ।
उक्तं हि नानुवृत्तार्थग्राहिणी नेत्रधीरिति ॥ . विचित्रविकल्पप्रबन्धविप्रलब्धबुद्धयः खल्वेवं मन्यन्ते, भवन्तु ते ; न 20 त्वेकं वस्तु बहुरूपं भवितुमर्हति ।
न चाप्यन्यतरेति । बुद्धिरध्यवसिततद्भावत्वेन भ्रान्तिः, शुक्ताविव रजतरूपत्वेनाध्यवसितायाम् । अतद्रूपस्य ज्ञात्वापि केनचित् सादृश्यादिना तद्रूपाध्यारोपणमुपचारो 'गौर्वाहीकः' इति यथा ।
विचित्रविकल्पप्रबन्धेति । निर्विकल्पोत्तरकालं योऽयं गौर्गौरित्यादिरबाह्यस्पर्शी
25 विकल्पप्रबन्धः।