________________
३०५
आह्निकम् ]
प्रमेयप्रकरणम् प्रेत्यभाव इत्यवाचकं सूत्रम् । उच्यते, पुनःशब्दार्थस्य यत्नत उपदिष्टस्य परिहर्तुमशक्यत्वादात्मनश्च स्थायित्वेन क्रियाभ्यावृत्तिसम्भवात् तस्यैव पुनः पुनरुत्पत्ति ब्रूमः, उत्पत्तिवन्मरणमपि । सोऽयमात्मन एव मृत्वा पुनर्जन्म प्रेत्यभाव इति ।
ननु जन्ममरणे उभे अपि नित्यत्वादात्मनो न संस्त इत्युक्तम्, सत्यम्, 5 शरीरादिसंयोगवियोगयोस्तु तथाभिधानान्न दोषः। मरणम्आत्मनो भोगायतनदेहेन्द्रियादिवियोग उच्यते, जन्म तु तत्सम्बन्धः । ते च ते विपच्यमानकर्माशयानुसारेण देहेन्द्रियादित्यागोपादाने एव मरणजन्मनी क्रियाभ्यावृत्त्या भवन्ती प्रेत्यभाव इत्युच्यते । स एव च संसारः । तदित्थमनुध्यायतः कस्य सचेतसो निर्वेदो नोदीयात् ? तदुक्तम्
जरावियोगमरणव्याधयस्तावदासताम् ।
जन्मैव किं न धीरस्य भूयो भूयस्त्रपाकरम् ॥ शरीराद्युत्पत्तौ कारणत्वेन परमाणुसाधनम् ___ अथ यैरुत्पद्यमानैदेहेन्द्रियादिभिरात्मनः सम्बन्धस्तेषां कथमुत्पत्तिरित्युक्तं सूत्रकृता 'व्यक्ताद् . व्यक्तानामुत्पत्तिः प्रत्यक्षप्रामाण्यात्' इति । व्यक्तादिति 15 कपिलाभ्युपगतत्रिगुणात्मकाव्यक्तरूपकारणनिषेधेन परमाणूनां शरीरादौ कार्ये कारणत्वमाह ।
तथा हि पार्थिवमाप्यं तैजसं वायवीयमिति चतुर्विधं कार्य स्वावयवाश्रितमुपलभ्यते । तत्र यथा घट: सावयवः कपालेष्वाश्रित एवं कपालान्यपि सावयवत्वात् तदवयवेषु, तदवयवा अपि तदवयवान्तरेष्वित्येवं तावद् यावत् पर- 20 माणवो निरवयवा इति । यत्र यावतः कार्यजातस्य स्वावयवाश्रितस्य प्रत्यक्षेण ग्रहणं तत्र तदेव प्रमाणम्, तदपि हि कार्यं सावयवत्वात् परिदृश्यमानकार्यवत् । निरवयवत्वे तु तस्य परमाणुत्वमेव । परमाणुषु च सावयवत्वस्य च हेतोरसिद्ध
व्यक्तादृ व्यक्तानामिति । व्यक्तात् परिमितात् व्यक्तानां परिमितानामुत्पत्तिः, प्रत्यक्षेण व्यक्ताश्रितस्य कार्यभूतस्य व्यक्तस्य दर्शनाद् नाव्यक्ताश्रितस्येत्यर्थः।
न्या० म० ३९
25