________________
5
३०६ न्याययञ्ज
[ अष्टमम् त्वान्नावयवान्तरकल्पना । तेषां हि सावयवत्वे तदवयवाः परमाणवोऽनुमीयन्ते। लोष्टस्य प्रविभज्यमानस्य भागास्तद्भागानाञ्च भागान्तराणीत्येवं तावद् यावदशक्यभङ्गत्वम् अदर्शनविषयत्वञ्च भवति । तद् यदि ततः परमवयवविभागो न सम्भवति ते परमाणव उच्यन्ते, तेष्वपि हि विभज्यमानेषु तदवयवाः परमाणवो भवेयुर्न ते। तदेवमुत्पत्तिविनाशक्रमस्येदृशो दर्शनात् सन्ति परमाणवः ।
अत्र हि त्रयी गतिः, अस्य घटादेः कार्यस्य निरवयवत्वमेव वा,अवयवानन्त्यं वा, परमाण्वन्तता वा । तत्र निरवयवत्वमनुपपन्नमवयवानाम् पटे तन्तूनां घटे
च कपालानां प्रत्यक्षमुपलम्भात् । अनन्तावयवयोगित्वमपि न युक्तम्, मेरुसर्ष10 पयोरनन्तावयवयोगित्वाविशेषेण तुल्यपरिमाणत्वप्रसङ्गात् । तस्मात् परमाण्व
न्ततैव युक्तिमती। अचेतनानां परमाणूनां न स्वतः संयोग इति तदर्थम् ईश्वरसिद्धिः
__ त इमे परमाणवश्चेतनेच्छाप्रेरणमन्तरेण विशिष्टक्रमकमितरेतरसङ्घटन
मलभमानाः कार्यसिद्धये न पर्याप्नुयुरचेतनत्वादिति चेतन एषामधिष्ठाता 15 सकलभवननिर्माणमतिरीश्वरोऽभ्युपगतः । तत्सिद्धये च सकलकुतर्कतिमिर
तिरस्कारपूर्वकं पूर्वमेव निरवद्यमनुमानमुपपादितम् । इश्वरोऽपि नानेकात्मवृत्तिविपाकोन्मुखधर्माधर्मसंस्कारवैचित्र्यमननुरुध्यमानो विचित्रस्य जगतो जन्म निर्मातुमर्हतीत्येतदपि दर्शितम् । परमाणुभिद्वर्यणुकादिक्रमेणैव कार्योत्पत्तिः
न च सकृदेव सतो निर्व/मानकार्यपरिमाणानुगुणसंख्याः परमाणव एकत्र संयोज्य कार्यमारभन्ते, किन्तु द्वयणुकादिक्रमेण, सकृदारम्भे हि कुम्भे भज्यमाने कपालशर्कराकणचूर्णादिक्रममपहाय प्रथममेव परमाण्वन्तता भवेत् । सर्वसंयोगस्य सर्वविभागेन सहसैव विनाशादतश्च कर्परादिक्रमदर्शनं विरुध्येत ।
अविनष्टेऽपि पटादौ तन्त्वाद्यवयवाश्रितत्वस्य ग्रहीतुमशक्यत्वात्, परमाणूनां 25 घटस्य च मध्ये कार्यान्तरानारम्भादिति । तस्माद् द्वयणुकादिप्रक्रमेण
परमाणवः कार्यमारभन्ते ।
20