________________
२८० न्यायमञ्ज
[ अष्टमम् किसलयितविसरसविलासविसरमधरपरिभ्रमणादि कन्दुकान्तम् । तथान्त्यजजात्यादिपरिहारेण स्वानुरूपजातियोगित्वमपीत्यादि सर्वं द्रव्यगुणकर्मादि सक्तिकारणमनुक्तं स्यात् । सूत्रस्थपदविचारः
तत्र केचित् पृथिव्यादिगुणा इति द्वन्द्वसमासं व्याचक्षते पृथिव्यादीनि च गुणाश्चेति । पृथिव्यादिपदेन गुणाधिकरणमवयवि द्रव्यमुक्तमाश्रितत्वविशेषणत्वाभ्यां सर्वे गुणा इति । गुणग्रहणेन च संख्यापरिमाणादिवत् कर्मसामान्याद्यपि सर्वमुक्तमतो नासङ्ग्रह इति ।
___तदिदमनुपपन्नम्, गन्धादिग्रहणस्य हि तदानीमानर्थक्यम्, गुणाश्चेत्यनेनैव 19 गतार्थत्वात् । विशेषख्यापनार्थं तदुपादानमिति चेत् तर्हि किं द्वन्द्वसमासवर्णनेन। अयमेवास्तु समाधिः ।
यद्यपि द्रव्यकर्मसामान्यानाम्, अन्येषाञ्च संख्यापरिमाणादिगुणानामस्त्येव सक्तिहेतूता, तथापि प्राधान्येन गन्धादीनामेव सा, दृश्यते हि रूपादि
निरपेक्षस्य द्रव्यस्य संख्यादेः सामान्यस्य वा न सक्तिहेतुत्वं समस्तीति, 15 रूपादय एव मुख्यं रागकारणम्, तत्र झटिति बुद्धेः प्रसरकरणात् । उक्तञ्च,
तथापि नितरां रागवृद्धय रूपादयो नृणाम् ।
त एव कविभिर्गीताः पञ्चेषोः पञ्च सायकाः ॥ तस्मात् पृथिव्यादीनां गुणा इति षष्ठीसमास एव श्रेयान् । गुणव्यतिरिक्तश्च गुणी पूर्वमेव समर्थितो यमहमद्राक्षं तं स्पृशामीति प्रत्ययप्रामाण्यात् ।
आश्रितत्व-विशेषणत्वाभ्यां सर्वे गुणा इति वैयाकरणपक्षपरिग्रहः। तथा च तेऽवोचन्,
संसगि भेदकं यद् यत् सव्यापारं प्रतोयते । गुणत्वं परतन्त्रत्वात् तस्य शास्त्र उदाहृतम् ॥ इति । तहि किं द्वन्द्वसमासवर्णनेनेति । प्राधान्यात् तेषामेवास्तु ग्रहणमित्यभि
25, प्रायेणेदमाह।