________________
२८१
आह्निकम् ]
प्रमेयप्रकरणम् पृथिव्यादीनां गुणविभागः
पृथिव्यादिगुणा इति यदुक्तं तदिदानी विभज्य वर्ण्यते कस्य कति गुणा इति । तत्र
गन्धादयो नियोक्तव्याश्चत्वारः पृथिवीगुणाः । अप्तेजोमरुतामेकं पूर्वपूर्वमपोह्य तु ॥
5 गन्धवजं रसरूपस्पर्शा अपाम्, रसवर्जं रूपस्पर्शी तेजसः, रूपवर्ज स्पर्शाख्यः वायोरिति, आकाशस्य तु गुणः शब्दः । पृथिव्यादीनां गुणनिश्चये शङ्का तत्समाधानञ्च • ननु नायं गुणविनियोगः साधीयान्, पृथिव्याश्चतुर्गुणत्वे पार्थिवेन घ्राणेन्द्रियेण चतुर्णामपि तद्गुणानां ग्रहणं स्यात्, एवमुत्तरेष्वपि वक्तव्यम् । तस्मा- 10 देकैकगुणत्वमेव भूतानामुच्यताम् । नैतदेवं गुणाः स्वेच्छया विप्रलभ्यन्ते, यथोपलभ्यन्ते तथा व्यवस्थाप्यन्ते, प्रतीतिप्रमाणका वयम् । तत्र पार्थिवे द्रव्ये चतुर्णामपि गुणानामुपलम्भः कथमेकगुणां पृथिवीं ब्रूमः ? रूपैकगुणे च तेजसि पृथिव्युदकयोर्वायुवदरूपत्वादप्रत्यक्षत्वं स्यात्, तस्मात् त्रीणि रूपवन्ति द्रव्याणि ।
15 ___ यद्येवं सर्वेषां सर्वत्रोपलम्भात् सर्वाणि सर्वगुणानि भवन्तु भूतानि, पटपटायते पृथिवी, छलछलायन्ते आपः, धकधकायते तेजः, कथकथायते वायुरिति सर्वेषां गुणः शब्दः स्यात् ? उच्यते, न सर्वे गुणाः सर्वत्रोपलभ्यन्ते निर्गन्धानामपां सर्वत्र दर्शनात्, क्लिन्नरूपादौ तु पार्थिवावयवनिष्कान्त्या गन्धः पयस्युपलभ्यते।
20 ___ एवं सुवर्णादौ तैजसे द्रव्ये संयुक्तसमवायाद्रसाद्युपलब्धिः , शब्दस्तु सर्वकालमाकाशवृत्तिरेव प्रतीयते, पृथिव्याद्यवयवसंयोगविभागप्रभवस्त्वसाविति तदाश्रितत्वभ्रममावहति न त्वाकाशाद् विना तस्य ग्रहणमिति आकाशं तत एव शब्द इत्येतच्च प्राङ् निर्णीतं गुणत्वम् ।
__ यच्च पृथिव्याश्चतुर्गुणत्वे तद्गुणानां चतुर्णामपि पार्थिवव्राणेन्द्रिय- 25 ग्राह्यत्वं स्यादिति, तन्न, गुणोत्कर्षस्य नियामकत्वात् । सातिशयगन्धगुणाधि
न्या० म० ३६