________________
[ सप्तमम्
२५४
न्यायमञ्जसर्वथा शाक्यभिक्षूणां परलोको विसंष्ठुलः ।
न तत्प्रसाधने तेषां काचिद् गमनिकास्ति वा ॥ क्षणिकज्ञानात्मवादे दोषप्रदर्शनम्
गर्भादौ प्रथमं ज्ञानं विज्ञानान्तरपूर्वकम् । ज्ञानत्वादित्ययं हेतुरप्रयोजक इष्यते ॥ मूर्छाद्यनन्तरोद्भूतज्ञानश्च व्यभिचार्ययम् । मूच्छितस्यापि विज्ञानमस्तीत्येतत्तु कौतुकम् ॥ न ह्यर्थावगतेरन्यद् रूपं ज्ञानस्य किञ्चन । मूर्छादिषु कुतस्तत् स्यात् कुतो वा कललादिषु ।। कललादिदशायां वा यदि विज्ञानमिष्यते । मातापितृस्थयोरस्ति शुक्रशोणितयोरपि । ततश्चैकत्र सन्ताने चैतन्यद्वयमापतेत् । चेतनानां बहुत्वं वा दम्पत्योर्बहुपुत्रयोः । न चैष नियमो लोके सदृशात् सदृशोद्भवः । वृश्चिकादेः समुत्पादो गोमयादपि दृश्यते ।। शरीरान्तरसंचारचातुर्यञ्च धियां कथम् । ज्वालादिवन्न मूर्तत्वं न च व्यापकतात्मवत् ।। आतिवाहिकदेहेन नीयन्ते चेद् भवान्तरम् । नन्वातिवाहिकेऽप्यासां कथं संचारसम्भवः ।।
___15
20
अकृताभ्यागमदोषस्य तदवस्थत्वात् । न चैष नियमो लोक इति । अस्मिन् हि नियमे सिद्धे सति गर्भशरीरज्ञानस्य वैसादृश्यादुत्पत्त्यसम्भवात् मुमूर्षुशरीरस्तु न तस्योपादानत्वे कल्पते, ततश्च न परलोकसिद्धिः । आतिवाहिकदेहेनेति । अतिवाहो मुमूर्षुशरीराद् गर्भशरोरसञ्चरणं ज्ञानस्य, तत् प्रयोजनं यस्य तदातिवाहिकम् अन्तराभवशरीरम् । तदुक्तम्,
नात्मास्ति स्कन्धमात्रं तु क्लेशकर्माभिसंस्कृतम् । अन्तराभवसन्तत्या याति कुक्षि प्रदीपवत् ।। इति ।
25