________________
२५३
आह्निकम् ]
प्रमेयप्रकरणम् सुखादेरपि कार्यस्य विज्ञानाद् व्यतिरिक्तता ।
प्रागुक्तेति तदप्यन्यद् भवत्यस्यानुमापकम् ॥ क्षणिकज्ञानात्मवादस्वीकारे कर्तुः कर्मफलसम्बन्धाभावः
किञ्च नाङ्गीकरोषि त्वमात्मानं पारलौकिकम् । उपैषि परलोकञ्च . किमिदन्ते वकव्रतम् ॥ कर्म सन्तानिनान्येन यत्कृतं चैत्यवन्दनम् । ततोऽद्य फलमन्येन भुज्यतेऽकृतकर्मणा ॥ न वा निर्वतिरप्येति चैत्यवन्दनकर्मणा । ज्ञानक्षणेन नैकेन किञ्चित् कर्म समाप्यते ॥ कार्यकारणभावश्च यस्त्वदुक्तः स दूषितः । कार्यकारणभावे हि न ह्यन्तत्वं निवर्तते । अनैकान्तिकता चास्य सन्तानान्तरबुद्धिभिः ।। उपादानत्वरूपोऽपि विशेषः प्राङ् निराकृतः ।। कार्पासरागसङक्रान्तिदृष्टान्तो यश्च वर्णितः । सोऽप्ययुक्तः स्वरूपेण तत्र तस्यैव दर्शनात् ॥ य एव रागः कार्पासे बीजे समुपकल्पितः । स एव दृश्यते पुष्पे न तु तस्मात् फलान्तरम् ।। एवं कर्मानुवृत्तिः स्यात् फलभोगस्तु दुर्घटः । कर्मानुवृत्तिरप्येषा न चैकस्यास्ति कस्यचित् ।। कार्यकारणयोर्भेदात् कार्पासकुसुमादिवत् । अन्यत्रैव हि कर्म स्यादन्यत्रैव च तत्फलम् ॥ न च सन्तानभोगाय कश्चित् कर्मानुतिष्ठति । फलमस्मान्ममैव स्यादिति सर्वः प्रवर्तते ।।
सन्तानच्छद्मना, न साक्षात् स्थिरपदार्थाश्रयणेन । सन्तानान्तरबुद्धिभिरिति । उपाध्यायबुद्धि-शिष्यबुद्धयोः कार्यकारणभावेऽप्यन्यत्वस्य स्फुटतया दर्शनात् । फलभोगस्तु 25 दुर्घट इति ।