________________
10
२५२ न्यायमञ्ज
[ सप्तमम् एव भावाभावावभासश्च विस्तरतः प्राक् साधितः, स च सहेतुक इति न स्वत एव विशरारवो भावाः । एवन्तु निष्प्रमाणे पदार्थस्थैर्यपक्षे ज्ञानन्तु जनकस्य नियतस्य वस्तुनो दर्शनम्, दर्शनविषयीकृतस्य प्रवृत्तिः, प्रवृत्तिविषयीकृतस्य प्राप्तिरिति व्यवहारो न स्यादर्थक्षणनानात्वात्, बाध्यबाधकभावश्च क्वचिद् ज्ञानानां दृष्टः स च न स्यात् । पूर्वावगतरजतादिविषयभावग्राहिणो ज्ञानस्य गृहीतमुद्गरदलितघटाभावज्ञानवद् बाधकत्वानुपपत्तेः । पूर्वदृष्टस्य स्मरणम्, स्मृतस्य, कस्यचित् प्रत्यभिज्ञानम् । प्रत्यभिज्ञातस्य गृहादेरर्धकृतस्य समापनमित्यादयश्च व्यवहारा विप्रलुप्येरन् ।
अथ सन्तानमाश्रित्य क्रियते तत्समर्थनम् । न तस्य भिन्नाभिन्नत्वविकल्पानुपपत्तितः ॥ अभेदपक्षे क्षणवद् व्यवहारो न सिध्यति । व्यतिरेके तु चिन्त्योऽसौ वास्तवोऽवास्तवोऽपि वा ।। अवास्तवत्वे पूर्वोक्त कार्य विघटते पुनः । वास्तवत्वे स्थिरो वा स्यात् क्षणिको वेति चिन्त्यताम् । सन्तानिनिर्विशेषः स्तात्सन्तानः क्षणभङगुरः ।
न सिध्येत् पुनरप्येष व्यवहारः पुरोदितः ॥ अथापि नित्यं परमार्थसन्तं सन्ताननामानमुपैषि भावम् । उत्तिष्ठ भिक्षो ! फलितास्तवाशाः सोऽयं समाप्तः क्षणभङ्गवादः ।।
तदेवं सति सन्तानच्छद्मनो विनिवारणात् । लोकयात्रा स्थिरैरेव पदार्थैरुपपद्यताम् ॥ एवमन्तरनिगदितदूषणनिकुरुम्बविनिहतप्रसरम् । नाध्यक्षं क्षणिकत्वे न चानुमानप्रमाणं तत् ॥ क्षणभङ्गे निरस्ते च कार्यमाधारवद् ध्रुवम् ।
अतो ज्ञानादिकार्येण युक्तमाश्रयकल्पनम् ॥ मुद्गरदलितेति । यथा मुद्गरभग्नघटाभावज्ञानं न पूर्वस्य घटसत्ताकालभाविघटज्ञानस्य बाधकं तथा नेदं रजतमित्यपि न स्यात् पूर्वानुभूतस्यानष्टत्वात् ।
सन्तानच्छद्मनो विनिवारणात् । सन्तान एव छद्म; अङ्गीक्रियते लोकयात्रा अथ च