________________
आह्निकम् ]
प्रमेयप्रकरणम्ं
३५१
इत्यपि तत्रैव परीक्षितम् । तदयमनिमेषदृष्टेर्दर्शनविच्छेदानुपग्रहात् तावानेकः स वर्त्तमान एव भवतु ।
ननु कालो नाम न कश्चित् पारमार्थिकः पदार्थ एव परिदृश्यमानो वर्त्तमानादिव्यवहारहेतुः, स च न चिरमनुभूयत इति क्षणिक उच्यते । भिक्षो ! अलमवान्तरगमनेन, मा भूत् काल: पदार्थस्त्वनिमेषदृष्टिना दृष्ट्यविच्छेदादविच्छिन्नसत्ताक एव दृश्यत इति न क्षणिकग्राहि प्रत्यक्षम् ।
ननु भवद्भिरपि न स्थिरं ज्ञानमिष्यते क्षीणे च ज्ञाने सोऽर्थो द्वितीयक्षणे केन गृह्यते, ज्ञानान्तरेण तु गृह्यमाणः स एवेत्यत्र को निश्चयः ? अनिमेषदृष्टेर्ज्ञानं न क्षीयत एवेत्येके ।
"
अथवा किं न एतेन न हि विषयप्रतिभासकाले ज्ञानमवभासत इत्यसकृदुक्तम्, वक्ष्यते च तत्र तत् कीदृशमिति कुतो वयं विद्मः ? अर्थस्त्वविच्छिन्नसत्ताक एव गृह्यते ज्ञानन्तु वर्त्तमानकालमप्यतीतानागतकालग्राहि भवति स्मरणमिव प्रातिभमिव भूतभविष्यद्वृष्टयनुमानमिव ।
नन्विन्द्रियव्यापारो न क्षणान्तरस्थायीति तस्मिन् असति कुतोऽस्य विततकालग्रहणम्, तदलं भवतु श्रान्तोऽसि मज्जस्वैवं ब्रुवाणः । निमेषकृतोऽपि विच्छेदोऽस्य नास्ति, अथ च न स्थिर इन्द्रियव्यापार इति साहसिकतामात्रम् । सन्निकर्षश्चास्य विषयग्रहणे व्यापारः स च स्थिर एव । तस्माद् विततकालस्य वस्तुनः प्रत्यक्षेण ग्रहणमिति स्थितम् एवञ्च स्थिते न स्वरूपमात्रमेव भावानां विनाशकारणं कारणानाञ्च नित्यत्वमेव दण्डादीनामिति सिद्धम् ।
यत् पुनरभाणि दर्शनादर्शने एव सत्त्वासत्त्वे भावानामिति, तदपि व्यामूढभाषितम्, दर्शनादर्शनाभ्यामेव भावाभावयोः परिच्छेदो न पुनर्दर्शनादर्शने
पदार्थ एव परिदृश्यमानो वर्तमानादिव्यवहारहेतुः, यथा सामान्यादिव्यवहारो न व्यक्तिव्यतिरिक्तालम्बनोऽपि त्वेकार्थक्रियाकारित्वाद्युपाधिनिबन्धनोऽसौ तत्र, तथा दृश्यमानत्वोपाधिनिबन्धनं पदार्थेषु वर्तमानताव्यवहार इति ।
तत् कीदृशमिति कुतो विद्मः । कीदृशं क्षीयते न वेति ।
5
10
15
20
25