________________
5
आह्निकम् ] प्रमेयप्रकरणम्
२३१ संस्कारस्य स्मृतिरेव कार्यमिन्द्रियस्यानुभव एव । सम्भूय न ताभ्यामेकं कार्यमारभ्यते । न हि मृत्पिण्डतन्तुनिर्वयंमेकं घटपटरूपं कार्यमुपलब्धम् । न चेन्द्रियं केवलमीदृशि कार्ये समर्थम् । यथासन्निहिताकारमात्रग्राह्ये विचारकमिन्द्रियं प्रत्यभिज्ञानमातनोतीति विस्मयः ! तस्माद् द्वे एते ज्ञाने, स इति स्मरणमयमित्यनुभवः ।
स्मृतिः स्मर्तव्यविषया ग्रहणं ग्राह्यगोचरम् । न तदैक्यपरामर्श दृश्यते प्रत्ययान्तरम् ।। यथा निरन्तरोत्पन्ने घटज्ञानपटस्मृती । न तुल्यविषये तद्वदेते अपि भविष्यतः ॥ यद्वा भवतु नामेदमेकमेव हि वेदनम् । तथापि कीदृशं वस्तु स्पृशतीति परीक्ष्यताम् ॥ अतीतकालयुक्तञ्चेत् स्मरणान्न विशिष्यते । अनागतविशिष्टञ्चेत् सङ्कल्पप्रायमेव तत् ।। वर्तमानैकनिष्ठञ्चेत् स्थिरत्वं तर्हि सुस्थितम् । कालत्रयपरीतञ्चेद्विरोधात्तत्तु दुर्लभम् ॥ परस्परपरित्यागव्यवस्थितनिजात्मनाम् ।
एकत्र न समावेशः कथञ्चिदुपपद्यते यथा हि,
नीलाभावाविनाभूतलौहिताद्यपसारणम् । कुर्वता नीलबोधेन नीलं भवति निश्चितम् ॥
अविचारकमिति । अर्थसन्निधिमात्रेण ज्ञानस्योत्पत्तेरविचारकत्वम् । तदुक्तम् “सन्निहितविषयबलोत्पत्तेरविचारकत्वम्" इति ।
सङ्कल्पप्रायमेव तदिति । सङ्कल्पस्यानागतविषयत्वेन दर्शनात् तत्प्रायता। स्थिरत्वं तहि सुस्थितम् । एतदेव क्षणिकत्वं यतः ।
यथाहि नीलाभावेति । नीलपरिच्छेदकं हि प्रमाणं तद्विरुद्धस्य नीलाभावस्येव 25