________________
२३०
न्यायमञ्ज
[ सप्तमम् न चैवमभ्युपगम्यते । तस्मादात्मलाभाविनाभावो भावानां विनाश इति सिद्धः क्षणभङ्गः। प्रत्यभिज्ञा न क्षणिकपदार्थवादविरोधिनी
यदपि क्षणभङ्गसाधनस्य पदार्थस्थैर्यावसायि प्रत्यभिज्ञानमनमानस्य बाधकमभिधीयते, तदपि न पेशलम्, अशिथिलप्रतिबन्धहेतौ बाधकस्य निरवकाशत्वात् । उक्तं हि, 'बाधाविनाभावयोविरोधान्नैकत्र समावेशः' इति । अनुष्णस्तेजोऽवयवी कृतकत्वादित्यत्रापि प्रतिबन्धवैधुर्यमेव साध्यसिद्धि विरुणद्धि नाध्यक्षबाध्यत्वम् । अथ वा किमनेन निर्बन्धनेन ?
अग्निशैत्यानुमानादौ युक्तं प्रत्यक्षबाधनम् ।
तस्य ह्यनन्यथासिद्धेरिह त्वेवं न युज्यते ।। प्रत्यभिज्ञायाः क्षणभङ्गपक्षेऽपि सदृशपरापरक्षणगणप्रसवप्रतारितमतीनामुपलभ्यमानत्वात् । एवञ्च सति,
यदि हि व्याप्तिशैथिल्यं सिद्धं कि प्रत्यभिज्ञया ।
अथ न व्याप्तिशैथिल्यं सिद्धं कि प्रत्यभिज्ञया । 15 न च प्रत्यभिज्ञैव व्याप्तिविप्लवकारणमितरेतराश्रयप्रसङ्गात् । व्याप्ति
विप्लवेनानुमाने न्यग्भूते प्रत्यभिज्ञा प्रमाणं भवति । तस्याञ्च प्रमाणीभूतायां व्याप्तिवैधुर्यादनुमानाप्रामाण्यम् । अनुमानप्रामाण्येऽपि समानो दोष इति चेन्न, तस्य प्रतिबन्धमहिम्नैव प्रामाण्यसिद्धेः । न हि तस्य प्रतिभिज्ञादौर्बल्यनिबन्धनं
प्रामाण्यम् । 20 प्रत्यभिज्ञास्वरूपविचारः
___ अपि च केयं प्रत्यभिज्ञा नामेति नैपुण्येन निरूपयितुमर्हन्त्यत्रभवन्तः । किं स एवायं कुम्भ इत्येकं ज्ञानमुत द्वे एते स्मृत्यनुभवज्ञाने ? यद्येकं तदस्य
कारणं वाच्यं यत उत्पद्यते ? नेन्द्रियं स इत्यस्मिन्नंशे तस्यासामर्थ्यात्, न . संस्कारस्तस्याप्ययमित्यंशे कौशलाभावात् ।
उभाभ्यां न च सम्भूय तज्ज्ञानमुपजन्यते । पृथक् पृथक् स्वकार्ये हि नितिं कौशलं तयोः ॥
25