________________
आह्निकम् ]
प्रमेयप्रकरणम्
नामुपगन्तव्या व्यापारावेशवशेन वा श्रोत्रियादिपक्षे, सहकार्यादिसन्निधानापादनेन वा नैयायिकादिपक्षे । कारकत्वं नाम वस्तुनो रूपमेकक्षणवृत्त्येव कार्योत्पत्त्यैव तत्कल्पनात् । ततः पूर्वमुत्तरकालं वा कारकायोगात् । कारकत्वमेव च परमार्थसत् अकारकस्य ज्ञानजनकत्वाभावादस्तित्वमपि दुर्वचम् | अतश्च सर्वंवादिभिरेव प्रायेण क्षणिकत्वमिदमभ्युपगतमिति यश एव केवलं 5 सौगताः पीतवन्तः । तस्मात् सिद्धं यत् कारकं यच्च सत्तत्क्षणिकमिति ।
अतश्च क्षणभङ्गिनो भावाः प्रलयं प्रति हेतुनिरपेक्षत्वात् । भावो हि स्वतो नश्वरात्मा भवेत्तद्विपरीतो वा,
विनश्वरस्वभावेऽस्मिन् कृतं प्रलयहेतुभिः । अनश्वरस्वभावेऽपि कृतं प्रलयहेतुभिः ॥
क्व तर्हि मुद्गरादीनां व्यापारः ? विजातीयसन्ततिजन्मनीति ब्रूमः । अभावस्तु तज्जन्यो न सम्भवत्येव प्रमाणविरुद्धत्वात् । भावो हि स्वरूपेण न भवति न त्वभावोऽपि भवतीति । स्वरूपं भावात्मकञ्चेत् सर्वदैव भवेदेव, न न भवेत् । अभावात्मकन्तु तदेव न भवेत् परापेक्षाया अभावात् । न हि मुद्गरादिकारणान्तरसापेक्षः कुम्भादेविनाशो भवितुमर्हत्युत्पत्ताविव नाशेऽपि समर्थासमर्थंभिन्नाभिन्नोपकारिसहकार्यादिविकल्पकलापानपायात् ।
अथ कतिपयक्षणव्यवहितविनाशस्वभावो भाव इष्यते तर्हि प्राक्तननयेन कदाचिदपि न विनश्येत् । विनाशसमयेऽपि तत्स्वभावानपायेन पुनः कतिपयक्षणापेक्षणप्रसङ्गात् । अपि च यदापि तेन नष्टव्यं तदाप्यस्य न स्वरूपादतिरिक्तः कश्चन विनाशहेतुरवतरति । तच्च स्वरूपाद्यपेक्षणे तस्य तादृशमेवेति तदैव वा नश्येन कदाचिद्वा ।
क्षणः ।
अथ मृत्योरपक्रान्तस्तस्य चेत् प्रथमः अविनाशिस्वभावत्वादास्तां युगशतान्यपि ॥
व्यापारावेशवशेन वेति । स्वरूपाविशेषेऽपि कदाचित् कार्यजननात् प्राक् कार्योत्पत्तेर्व्यापारावेशः पदार्थस्यानुमानतो निश्श्रेय इति प्रागेव निर्णीतम् ।
10
15
20
25