________________
२१२
न्यायमञ्जयां
[ सप्तमम् नन्वत्र चोदितमनुसन्धातारमन्तरेण तदेतदिच्छादिकार्यं नावकल्पत इति कथं ज्ञायते ? एकत्र प्रमातरि तद्दर्शनादिति । यदुच्यते तदिदमेकप्रमातृग्रहणादात्मप्रत्यक्षत्वमङ्गीकृतं स्यादिति व्यर्थमनुमानम्; अग्रहणे तु प्रमातुरेकस्य तत्पूर्वकेच्छादेः प्रतिबन्धाग्रहणादशक्यमनुमानमिति, परिहृतमेतत्; कार्यत्वेनैव लिङ्गत्वमिच्छादेरुपवणितमस्माभिर्न स्मरणादिसमानाश्रयतयेति । किमर्थस्तहि प्रतिसन्धानोपन्यासः ? शरीरादिषु तदाश्रयत्वप्रतिषेधार्थः । न त्वेवं व्याख्यातवन्तो वयमेकस्य प्रमातुरिच्छादिकार्याश्रयत्वदर्शनादेकाश्रयत्वानुमानमिति तस्मान्न दोषः, शरीराश्रयत्वप्रतिषेधसाधनत्वेऽपि हेतोाप्ति
ग्रहणासम्भवात् । ग्राहकबुद्धिदर्शनस्मरणेच्छादिकार्यजातमेकत्र प्रमातृनियत10 तयानवधारितम् । तत् कथमस्मदवस्थादिभिन्नशरीराद्याश्रयत्वनिषेधस्य तत्पूर्वकस्य वात्माश्रितत्वस्य सिद्धिः ?
क एवमाह न गृहीतमेककर्तृकतया कार्यमिच्छादोति । यदि गृहीतं तर्हि वक्तव्यं क्व गृहीतं केन वा प्रमाणेन गृहीतमिति ? स्वात्मन्येवेति चेत् सोऽयं प्रत्यक्ष आत्मा भवेत् । एवमनभ्युपगमे न व्याप्तिग्रहणमिति ।
उच्यते । न च प्रत्यक्ष आत्मा, न च व्याप्तेरग्रहणम्, न चैव धर्म्यन्तरे व्याप्तिर्गृह्यते किन्तु स्वसन्तान एव; तथापि न सिद्धयति प्रमातृनियतानुमानम्; कथमिव सिद्धयति सन्तानान्तरेषु प्रतिसन्धानस्य दृष्टत्वात् ।
किञ्च कोऽत्र व्याप्तिग्रहणकाल: ? प्रमातृवद्धि तद्भेदेन भवितव्यम् । ततः किम् ? इदं ततो भवति । कथं स्वसन्तान एव व्याप्तिर्गृह्यतां कथञ्च तत्रैव 20 प्रमातृनियमोऽनुमीयतामिति सेयमुभयतःपाशा रज्जुः; आत्मा वा प्रत्यक्षो
व्याप्तिर्वा दुरवगमेति । नैतदेवम् । यथा शाक्यपक्षे सत्त्वात् क्षणिकत्वानुमाने
15
किन्तु स्वसन्तान एवेति । एकशरीरावच्छिन्ने क्वचिद् वस्तुनि । सन्तानान्तरेषु प्रतिसन्धानस्यादृष्टत्वात् । प्रमातृनियमस्य 'ये केचिदत्र न प्रमातारोऽपि तु नियम एव कश्चित्' इत्येवंरूपस्य ।
सेयमुभयतःपाशा । यथोभयतः पाशारज्जावेकदिशा योजनेऽपरदिशा विघटनम् । तद्वद् इदम् । यद्यात्मा न प्रत्यक्ष इत्यभ्युपगम्यते तदा व्याप्तेरघटनम्, व्याप्तिघटने त्वात्म