________________
10
आह्निकम् ] प्रमेयप्रकरणम्
२११ व्यतिरेकस्य हेतोरगमकत्वं निश्चितव्यभिचारहेतुवदिति तार्किकाः ।
उच्यते । स्यादेतदेवं यदि प्रथममनवगतान्वय एव केवलव्यतिरेकशरणो हेतुः प्रयुज्यते, यतस्त्वन्वयव्यतिरेकता अवकाशं लभते । घटो हि भूतलाश्रितत्वेन प्रत्यक्षमुपलभ्यते, तदस्य विशेषणाश्रयविरहादेव सविशेषणहेतुशून्यता जाता, निविशेषणावस्थायां तद्योगदर्शनादिति न सन्दिग्धो व्यतिरेकः । अथवा 5 शरीरत्वं सामान्यमिह वैधर्म्यदृष्टान्तीकर्तव्यम् । तत्र हि सर्वात्मना कार्यत्वस्पर्शोऽस्ति नास्ति, न च तद्विलक्षणाश्रितम्, शरीराश्रितत्वस्य प्रत्यक्षत उपलम्भादिति । तदियमिच्छा प्रथमपदार्थदर्शनादिकार्यसमानकर्तृकतयावगम्यमाना शरीरादिविलक्षणमाश्रयमवगमयति सविशेषणात् कार्यत्वादिति स्थितम्; यश्च स विलक्षण आश्रयस्तत्रात्मसंज्ञा आगमिकी।
एवमेव द्वेषादेरात्मलिङ्गता वक्तव्या। यज्जातीयस्यार्थस्य सन्निधानाद् दुःखमनुभूतवान् पुरुषः, तज्जातीयमर्थं पुनरुपलभमानो दुःखसाधनतामनुसन्धाय तं द्वेष्टीति सोऽपि प्रतिसन्धातारमेकमन्तरेण नोपपद्यते। आभ्यामिच्छाद्वेषाभ्यामनन्तरं प्रयत्नः समुत्पद्यते । सोऽपि यथोक्तेन क्रमेणानुसन्धानपूर्वक एव प्रयतमानस्य सुखदुःखे भवतः । ते अपि तथैव द्रष्टव्ये । ज्ञानं यद्यपि प्रथममनु- 15 सन्धाननिरपेक्षमपि भवति, तदपि च शक्यत एवात्मलिङ्गमभिधातुं तथाप्यनुसन्धानपूर्वेच्छादिकार्यप्रकरणान्निर्णयात्मकमिह ज्ञानमुदाहर्तव्यम् । तत्र हि बुभुत्साविमर्शादिपूर्वकत्वमुपकल्प्यते। तदेवमिच्छादीन्यात्मलिङ्गानीति स्थितम्।
शास्त्रे चानेकहेतूक्तिर्न दोषाय कथास्विव ।
शिष्यः कश्चित् क्वचित् किश्चिदनुस्मृत्याभिधास्यति ॥ इति कारुणिको मुनिरनेकमिह हेतुमार्गमुपदिष्टवान् ।
तत्रात्मसंज्ञा आगमिको न पुनः प्रमाणादिसंज्ञावद् यौगिकी।
ते अपि तथैव द्रष्टव्ये पूर्वानुसन्धान विना प्रयत्नाभावः, प्रयत्नाभावाच्च तयोरप्यभाव इति । तदुत्पत्तावपि सर्वः पूर्वोक्तः क्रमः ।
न दोषाय कथास्विव । यथा वादादिकथासु दोषाय ।