SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ आह्निकम् ] प्रमेयप्रकरणम् व्याप्तिग्रहणम्, तथेहापि भविष्यति । तत्र हि यैव क्रमयोगपद्यव्यावृत्त्या सत्त्वस्य नित्येभ्यो व्यावृत्तिः, स एव क्षणिकैरन्वय इति धर्म्यन्तरनिरपेक्षतयैव साध्येऽपि मिणि प्रतिबन्धग्रहणञ्चानुमानञ्च दर्शितम् । तद्वदिहाप्येकप्रमातृपूर्वकत्वेन प्रतिसन्धानस्य धर्म्यन्तरे यद्यपि ग्रहणं नास्ति तथापि सन्तानान्तरभेदे यदस्य दर्शनं तदेवैककर्तृकत्वदर्शनमिति कोऽनयोर्हेतुत्वे विशेषः ? ननु तत्र नित्येभ्यः क्रमयोगपद्यव्यावृत्त्या व्यावृत्तं सत्त्वं शक्यग्रहणम्, इह तु प्रमातृभेदेन प्रतिसन्धानव्यावृत्तिर्दुरवगमा, स्वसन्तानेऽपि ज्ञानक्षणाभिन्ना एव प्रमातारः । न च तेभ्यो व्यावृत्तं प्रतिसन्धानमिति, तिष्ठत्वन्वयः । व्यतिरेकमुखेनापि कष्टमिदमनुमानं वर्तते, स्वसन्ताने सन्तानान्तरवत् प्रमातृभेदाग्रहणात्, तद्भेदग्रहे हि स्वसन्तानविवेको न स्यात्, न चैवं प्रमातृभेदाग्रहणाभावात् 10 पुनरप्यात्मा प्रत्यक्ष आयातः । मैवम्, नात्मा प्रत्यक्षः प्रमातृभेदो हि स्वसन्ताने न गृह्यते । अन्यच्च भेदाग्रहणमन्यच्च तदैक्यग्रहणम् भेदाग्रहवदेव च व्याप्तिसिद्धेर्न कष्टमनुमानम् । ननु च स्वसन्ताने प्रमातृभेदाग्रहणं किं प्रमातुरेकत्वादुत ज्ञानानां कार्यकारणभावादिति न निश्चीयते, ततश्च सन्दिग्धो व्यतिरेकः; यथा ज्ञानानां 15 कार्यकारणभावो नास्ति यथा च न तत्कृतोऽयं व्यवहारस्तथानन्तरमेव वक्ष्यामः । तस्मादिच्छादिकार्येण युक्तमेकप्रमात्रनुमानम् । प्रत्यक्षसिद्धिरिति । स एव क्षणिकैरन्वय इति । न हि सत्त्वक्षणिकत्वयोः क्वचिद् धर्मिणि सिद्धरन्वयग्रहणं सम्भवति, सर्वस्य क्षणिकत्वेन साध्यत्वात् । अतोऽक्षणिकेभ्यो व्यावृत्तिरेव क्षणिकैरन्वयः सत्त्वस्य । क्षणिकाक्षणिकाद् राश्यन्तरस्याभावाद् अक्षणिकेभ्यो व्यावृत्तं 20 सत्त्वं क्वान्यत्र यायात् क्षणिकान् मुक्त्वेति । व्यतिरेकमुखेनापि इति । यत्रैककर्तृकत्वं नास्ति तत्र प्रतिसन्धानादि नास्तीति व्यतिरेकासिद्धिः। ज्ञानक्षणेषु भिन्नेष्वपि प्रमातृषु प्रतिसन्धानस्य बौद्धदृष्ट्या सम्भाव्यमानत्वादिति। भेदाग्रहणादेव च व्याप्तिसिद्धेरिति । यावदेव भेदान् अगृहीतस्तावदेव प्रति- 25 सन्धानादेरभिन्नकर्तृकत्वेनान्वयो गृहीत इति ।
SR No.002346
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1983
Total Pages384
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy